________________
Shri Mahavir Jain Aradhana Kendra
220
www.kobatirth.org
तैत्तिरीयसंहिता
-
Acharya Shri Kailashsagarsuri Gyanmandir
वः । आयु॑षे॒ त्वं जीवसे व॒यं यथायथं वि परि॑ि दधावहै पुनस्ते । नमो॒ऽग्नयेऽप्र॑तिविद्धाय॒ नमोना॑वृ॒ष्टाय॒ नम॑स्स॒म्रार्जे । अपा॑ढः ॥ ४३ ॥ अ॒ग्निर्व॒हद॑या विश्व॒जित्सह॑न्त्य॒श्श्रे -
[का. १. प्र. ५.
3
जीवसे । व॒यम् । य॒थाय॒थमिति॑ यथा - य॒थम् । वि । परीति॑ धा॒व॒द्वै । पुनः । ते इर्त । नर्मः । अ॒ग्नये॑ । अप्र॑तिविद्ध्येत्यप्र॑ति - वि॒डा॒य॒ । नम॑ः । अना॑धृष्टा॒येत्यना॑धृष्टा॒ाय॒ । नम॑ः । स॒म्राज॒ इति॑ सं-रार्जे । अपा॑ढः ।। ४३ ।। अ॒ग्निः । बृ॒हद॑या॒ इति॑ बृ॒हत् व॒याः । वि॒श्व॒जिदित विश्व - जित् ।
तुमर्थे सेसेन् ' इत्यसेप्रत्ययः, आद्युदात्तत्वप्रसङ्गादसुन्नन्तो नेप्यते ॥
गार्हपत्यमुपतिष्ठते नमोप्रय इति त्रिष्टुभा । नमोमये पूजेयं क्रियते । अप्रतिविद्धाय केन चिदप्यताडिताय । नमोनाधृष्टाय केन चिदप्यपरि-' भूताय । नमस्सम्राजे सर्वदा सङ्गतदीप्तये । 'मो राजि समः कौ' इति मकारः । इदानीं स एवानिस्स्तूयते - अयं खल्वग्निः अषाढ : केन चिदपि सोढुमशक्यः । ' सा साङ्घा' इति निपात्यते, 'सहेस्साढस्सः इति षत्वम् । बृहद्वयाः अपरिमितान्नः, विश्वजित्सर्वस्य जेता, सहन्त्यः अभिभवनशीलश्शत्रूणाम् । सहेरौणादिके झचि स्वार्थिको यत्, अद्वयचोपि व्यत्ययेन 'यतोऽनाव:' इत्याद्युदात्तत्वम् |
For Private And Personal
"