________________
Shri Mahavir Jain Aradhana Kendra
अनु. १०. ]
www.kobatirth.org
भट्टभास्करभाष्योपेता
Acharya Shri Kailashsagarsuri Gyanmandir
पुन॒रा मँदैोस्तवाहं नाम बिभराण्यग्ने । मम॒ नाम॒ तव॑ च जातवे - दो वास॑सी इव वि॒वसा॑नो॒ ये चरा -
219
1
1
रित्या - ए॒तः । तव॑ । अ॒हम् । नाम॑ । वि॒भ॒राणि । अ॒ग्ने॒ मम॑ । नाम॑ । तव॑ । च॒ । जा॒त॒वे॑द॒ इत जात - वे॒द॒ः । वास॑स॒ इति॑ । इ॒व॒ । वि॒वसा॑ना॒विर्त वि-वसानौ । ये इति । चरा॑वः । आयु॑षे । त्वम् ।
त्परिहास्यते । अहमप्यन्यत्र त्वं भूत्वा त्वया कर्तव्यं करिष्यामि, यथा हि किञ्चित्परिहास्यते । एवमाभ्यां परस्परस्योपकुर्वद्भयां वर्तितव्यमिति ॥
For Private And Personal
" आगत्य प्रवासात्पुनस्तमुपतिष्ठते मम नाम तव चेति । अयञ्च जगतीप्रकारो विवृद्धपाद: । ' आयुषे त्वं जीवसे वयम् ' इति तृतीयः पादः ॥ हे जातवेदः मम च तव च सम्बन्धिनी ये नामनी विवसानौ विपरिवृत्य वसानौ मम नाम त्वं तव च नामाहमिति, अतोन्योन्यस्य विपरिवृत्ते इव धारयन्तौ चरावः त्वं चाहं च वर्तावहे । ते नामनी पुनरिदानीं यथायथं यथास्वं विपरिदधावहै पुनर्विवर्ताव है । तव नाम त्वमेव परिधत्स्व मम च नामाहमेव परिदधे । ' यथास्वे यथायथम् ' इति निपात्यते । किमर्थमित्याह— आयुषे अन्नाय हविर्लक्षणाय त्वमात्मीयं नाम गृहाण । जीवसे दीर्घायुर्जीवितुम् वयमप्यात्मीयं नाम गृह्णीमः । 'अस्मदो द्वयोश्च ' इत्येकस्मिन् बहुवचनम् । वचनव्यत्ययो वा ।