SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 218 www.kobatirth.org तैत्तिरीयसंहिता Acharya Shri Kailashsagarsuri Gyanmandir [का. १. प्र. ५. मम॒ नाम॑ प्रथ॒मं जा॑तवेदः पि॒ता मा॒ता च॑ दधतुर्यदयै । तत्त्वं बिभृहि । 'मम॑ । नाम॑ । प्र॒थ॒मम् । जा॒तवे॒द॒ इतै जातवे॒दुः । पि॒ता । मा॒ता । च॒ । द॒ध॒तुः । यत् । अये॑ । तत् । त्वम् । वि॒भृहि॒ पुन॑ः । एति॑ । मत् । ऐतो॒ - I For Private And Personal 'अग्निभ्यः प्रवत्स्यन्नाहवनीयमुपतिष्ठते मम नामेति त्रिष्टुभा ॥ हे अग्ने जातवेदः जातानां वेदितः, यद्वा — जातधनादिक । मम यत्प्रथममाद्यं गुह्यं ; ' तस्माद्विनामा ब्राह्मणोर्युकः * इति द्विना - मत्वाद्विशेष्यते । किम्पुनस्तदित्याह – पिता माता चाग्रे जन्मकाले यद्दधतुः नाम मम चक्रतुः । सत्यपि यद्वृत्ते व्यत्ययेन निहन्यते । यद्वा — मम प्रथमं नाम माता च पिता च दधतुः तस्मादेवं नाम विशिष्टम् । ततः किम्पुनस्तदित्याह — यदग्रे यज्जन्मकाले एव ममाभूत् । प्रथमस्य नाम्नो द्वौ गुणौ, मातापितृकर्तृकत्वं अग्रे कृतत्वं च । ततो विशिष्टं मदीयं नाम त्वं बिभृहि । कुत इत्यत आह-मत् मम । 'सुपां सुलुक् ' इति षष्ठ्या लुक् । कुतः ? आ पुनरेतोः आपुनरागमनात् । ' भावलक्षणे स्थेणू ' इति तोसुन्प्रत्ययः, कृदुत्तरपदप्रकृतिस्वरत्वं बाधित्वा ' तादौ च ' इति गतेः प्रकृतिस्वरत्वम् । यद्वा – आभिमुख्ये आङ्क्षीकर्तव्यः । कर्तरि तोसुन् । मदिति पञ्चम्येव । आगन्तोः मत् यावदहमा - गन्तास्मि तावदित्यर्थः । तव च नामाहं बिभराणि । तावन्तं कालं नामभरणं चावश्यकार्यप्रतिलम्भार्थम् । एतदुक्तं भवति — मयि प्रोषित उपसन्निहितस्त्वमहं भूत्वा मया कर्तव्यं सर्वं कुरु, यथात्र न किञ्चि " *सं. ६-३-१.
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy