________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
214
तैत्तिरीयसंहिता
का.१. प्र.५..
श्वासाते ज्योतिर्वा अग्निस्तमो रात्रिर्यत् ॥ ४० ॥ नक्तमुपतिष्ठते ज्योतिषैव तमस्तरत्युपस्थेयोऽनी३नोपस्थया३ इत्याहुर्मनुष्यायेन्नै योहरहराहृत्याथैनं याचति स इन्वै
तमुपार्छत्यथ को देवानहरहर्याचिच । आसाते इति । ज्योतिः । वै । अग्निः । तमः । रात्रिः । यत् ॥ ४०॥ नक्तम् । उपतिष्ठत इत्युप-तिष्ठते । ज्योतिषा । एव । तमः। तरति । उपस्थेय इत्युप-स्थेयः। अग्नीः३ । न। उपस्थेया३ इत्युप-स्थेयाः३ । इति । आहुः । मनुष्याय । इत् । नु । वै । यः। अहरहरित्यहः-अह । आहत्येत्या-हृत्य । अर्थ । एनम् । याचति । सः। इत् । नु । वै। तम् । उपेति । ऋच्छति । अर्थ । कः। दे॒वान् । अर्हरहरित्यहः-अहः। याचिष्यति । इति । प्लुतोदात्तत्वं, ततस्तस्यासिद्धत्वात्कदुत्तरपदप्रकृतिस्वरत्वम् , ' यतोऽनावः' इत्याद्युदात्तत्वम् , तेन द्वयोरुदात्तयोश्श्रवणं भवति । मनुष्यायेत्यादि । इदित्यवधारणे, नु इति वितर्के, वै इति प्रसिद्धौ । मनुष्यायाहरहः फलादिकमाहृत्यैवाथैनं यो याचति सोपि तमुपार्च्छति उपरुध्य पीडयत्येव । एवं खल्वेतत् ।
For Private And Personal