________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. ९.]
. भट्टभास्करभाष्योपेता
213
लोकमैति सर्वमायुरेत्यभि वा एषोऽनी आ रोहति य एनावुपतिटते यथा खलु वै श्रेयांनभ्यारूढः कामयते तां करोत नक्तमुप॑ तिष्ठते न प्रातस्स५ हि नक्तं व्रतानि
सृज्यन्ते सह श्रेयाश्च पापीया ५इत्युप-तिष्ठते । सुवर्गमिति सुवः-गम् । एव । लोकम् । एति । सर्वम् । आयुः । एति । अभीति । वै । एषः । अग्नी इति । एति । रोहति । यः। एनौ । उपतिष्ठत इत्युप-तिष्ठते । यर्था । खलु । वै । श्रेयान् । अभ्यारूढ इत्यभि-आरूढः । कामयते तथा । करोति । नक्तम् । उपेति । तिष्ठते । न । प्रातः । समिति । हि । नक्तम् । व्रतानि । सृज्यन्ते । सह । श्रेयान् । च । पापीयान् । सं हीत्यादि। हिशब्दो यस्मादित्यर्थे वर्तते । यस्मान्नक्तं व्रतानि कर्माणि शुभाशुभलक्षणानि संसृज्यन्ते अविभक्तानि भवन्ति, श्रेयसां पापीयसां च विशेषप्रतिपत्तिर्नास्ति, तस्मादेतद्दोषपरिहारार्थमुपस्थातव्यं ; उपस्थानेन तमस्स्वरूपां रात्रि ज्योतिषा सन्तरति । अथ पूर्वपक्षावतारं संशयपूर्व प्रस्तौति । उपस्थय इति । 'विचार्यमाणानाम् ' इत्युभयत्रोदात्तप्लुतः । उपस्थेया इत्यत्र पूर्व परत्वात्
For Private And Personal