________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. २.]
भटभास्करभाष्योपेता
15
हा त्वा सुअवस्सूर्याय देवेभ्य॑स्त्वा मरीचिपेभ्य॑ एष ते योनिः प्राणा
य॑ त्वा ॥ ३ ॥ सूर्याय । "देवेभ्यः । त्वा । मरीचिपेभ्य इति मरीचि-पेभ्यः । "एषः । ते । योनिः । “प्राणायेति प्र-अनार्य । त्वा ॥३॥
वाचस्सप्तचत्वारि शत् ॥ २॥ 1 ग्रहलेपं पाणिना मध्यमे परिधौ निमार्टि-देवेभ्यस्त्वेति ॥ मरीचिशब्देन मरीचिमान् सूर्य उच्यते, यस्मै ग्रहः पूर्व हुतः । 'लुगकारेकाररेफाश्च ' इति मत्वर्थीयस्य लुक् । साहचर्याद्वोच्यते । मरीचिमत्सूर्यमण्डलं पान्ति रक्षन्तीति मरीचिपाः रश्मयः । 'आदित्यस्य वै रश्मयो देवा मरीचिपाः '* इति ब्राह्मणम् । यद्वा--आदित्यस्य मरीचिनैव विश्वं पान्ति तामेव पिबन्तीति वा मरीचिपाः देवविशेषाः । 'आदित्यस्य वै रश्मयः '* इति च गुणभूतत्वमुच्यते । आदित्यस्य रश्मिस्थानीया इति यावत् । तेभ्यो देवेभ्यस्त्वां ग्रहलेपं निमार्मीति शेषः ।। ___ "आग्रयणस्थाल्याः ग्रहस्य संत्रावमपनयति-एष ते योनिरिति॥ हे उपांशुसंस्राव एष आग्रयणस्थाल्याख्यस्ते तव योनिः स्थानम् , यत्र निहितस्त्वं यागसिद्धयै सम्पत्स्यसे । अतस्तं प्रविशेति शेषः ॥
1"उपांशुपात्रं दक्षिणत उपांशुसवनेन संस्टष्टं सादयति-प्राणाय त्वेति ॥ प्राणार्थं त्वां सादयामीति शेषः । थाथादिस्वरेणा
*सं. ६-४-५.
For Private And Personal