SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 14 'तैत्तिरीयसंहिता [का. १. प्र. ४. wwww __ मनस्त्वाष्ट्रव॑न्तरिक्षमन्विहि स्वाइन्द्रियेभ्यः । दिव्येभ्यः । पार्थिवेभ्यः। 'मनः। त्वा । अष्टु । 'उरु । अन्तरिक्षम् । अन्विति । इहि । स्वाहा॑ । त्वा । सुभव इति सु-भवः । - ___ 'तमादायोत्तिष्ठति-मनस्त्वाष्विति ॥ मननधर्मा* प्राणो मन इत्युच्यते । सूर्यात्मना हे ग्रह मनस्त्वा त्वामष्टु अभुतां व्यामोतु । अश्नोतेर्व्यत्ययेन परस्मैपदम् , 'बहुलं छन्दसि ' इति शपो लुक् , ब्रश्चादिना षत्वम् । 'मनस्त्वाष्ट्रित्याह मन एवाश्रुते, इत्यादि ब्राह्मणम् ॥ आहवनीयं प्रति गच्छति-उर्विति ॥ व्याख्यातम् । । 'अन्तरिक्षदेवत्यो हि प्राणः + इत्यादिब्राह्मणम् ॥ __जुहोति-स्वाहा त्वेति ॥ हे ग्रह उपांशो त्वा त्वां स्वाहा स्वाहुतं करोमीति शेषः । हे सुभवः हे प्राणात्मक, उक्तं हि'प्राणो वा एष यदुपांशुः । इति । तत्र स्वस्मादात्मनो जाताः स्वभवसः प्राणाः । 'गतिकारकयोरपि ' इति भवतेरसुन् । 'प्राणा वै स्वभवसो देवाः + इति च ब्राह्मणम् । तत्र स्वभवसो देवान् सुभव इत्याचष्टे परोक्षत्वाय । 'तेष्वेव परोक्षं जुहोति + इत्यादि ब्राह्मणम् । तत्र पूर्वपदस्य सम्प्रसारणं, उत्तरपदस्य विभक्तिव्यत्ययः कृतः । सूर्याय प्राणानामात्मभूताय त्वां स्वाहुतं करोमीति ॥ *ख-मननपर. सं. ६-४-५. सं. १-१-२18 For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy