SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. २.] भभास्करभाष्योपेता 13 न्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यो तीः। नः । इषः । कृधि । विश्वेभ्यः । त्वा । अन्नानि नः अस्माकं कृधि कुरु । मधुमतीः कुर्विति वा । प्राणात्मना ग्रह उच्यते, 'प्राणो वा एष यदुपांशुः '* इति चाभेदं प्रतिपादयति । 'सर्व मेवास्मा इदं स्वदयति '* इति ब्राह्मणम् । करोतेर्लोटि ‘बहुलं छन्दसि' इति शपो लुकू । ' श्रुश्रुणुप्कवृभ्यश्छन्दसि' इति हेर्धिभावः । 'कः करत्' इत्यादिना विसर्जनीयस्य सत्वम् ॥ 'एनमूर्ध्वमुन्मार्टि-विश्वेभ्य इति ॥ विश्वेभ्यः इन्द्रियेभ्य इन्द्रेणेश्वरेण सृष्टेभ्यः । 'इन्द्रियमिन्द्रलिङ्गम् ' इत्यादौ निपात्यते । के पुनस्ते ? देवा मनुष्याश्च । 'उभयेष्वेव देवमनुप्येषु प्राणान्दधाति '* इति ब्राह्मणम् । तानेवाह-दिव्येभ्यः पार्थिवेभ्य इति । दिवमर्हन्तीति दिव्याः । 'छन्दसि च ' इति यत्प्रत्ययः । पृथिव्यां भवाः पार्थिवाः । 'पृथिव्या जाऔ' इत्यप्रत्ययः । एतेभ्यस्त्वामुपांशुग्रहं प्राणभूतमुन्मामीति शेषः । एतेषां प्राणस्थित्यर्थ, यदाह 'उभयेष्वेव देवमनुष्येषु प्राणान्दधाति '* इति । यद्वा-इन्द्रियशब्देन चक्षुरादीनामधिपतय आदित्यादय उच्यन्ते । तत्र दिव्यानि ज्ञानेन्द्रियाणि, पार्थिवानि कर्मेन्द्रियाणि, तदर्थ त्वामुन्मामीति ॥ _ *सं. ६-४-५. खि-ग-दिवमर्हतीति दिव्या. ग-बुद्धी. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy