________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
188
तैत्तिरीयसंहिता
[का. 1.प्र. ५.
क्युपेत्याह प्रजा वै पशव उपेम लोकं प्र॒जामेव पशूनिमलोकमुपैत्यस्य प्र॒त्नामनु द्युतमित्याह सुवर्गों
वै लोकः प्रत्नस्सुवर्गमेव लोक मम् । एव । अस्मै । युनक्ति । उपेति । इति । आह । प्रति प्र-जा। वै । पशवः । उपेति । इमम् । लोकम् । प्रजामिति प्र-जाम् । एव । पशून् । इमम् । लोकम् । उपेति । एति। अस्य । प्रत्नाम् । अन्विति । द्युतम् । इति । आह । सुवर्ग इति सुवः-गः। वै। लोकः। प्रत्नः। सुवर्गमिति सुवः-गम् । एव । लोकम् । समारो
"उपेत्याहेत्यादि । प्रजाश्च पशवश्चमं लोकमुपेत्य वर्तन्ते । तस्मादेतल्लोकात्मकाध्वरोपायनकथनं प्रजानां पशूनामस्य च लोकस्योपनयनाय भवतीति ॥
अस्य प्रनामिति ॥ प्रनतया स्वर्गस्थानीयं दीप्तिदोहनं स्वर्गसमारोहणाय भवतीति ॥
'अग्निरिति ॥ अग्नेर्मूर्धत्वाभिधानं यजमानस्य प्राधान्यार्थमिति । अथो अपि च देवलोकादागत्य मनुष्यलोके प्रतिष्ठितो भवति ॥
For Private And Personal