SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 186 तैत्तिरीयसंहिता . का. १. प्र. ५. wwwwww रावतः। अग्नै गृहपते सुगृहपतिरह त्वया॑ गृहप॑तिना भूयास सुगृहपतिर्मया त्वं गृहप॑तिना भूयाशत हिमास्तामाशिषमा शासे तन्त। रम् । भङ्गुरावत इति भङ्गुर-वतः। “अग्ने । गृहपत इति गृह-पते । सुगृहपतिरिति सु-गृहपतिः । अहम् । त्वया । गृहपतिनेति गृह-पतिना । भूयासम् । सुगृहपतिरिति सु-गृहपतिः। मयां । त्वम्। गृहप॑तिनेति गृह-पतिना । भूयाः । शतम् । हिमाः । ताम् । आशिषमित्या-शिर्षम् । एत । गार्हपत्यमेवोपतिष्ठते--अग्ने गृहपत इति यजुभिः ॥ हे अग्ने गृहपते गृहकर्मणां पालयितः त्वया गृहपतिना स[गृहकर्मणां पालनं कुर्वता सुगृहपतिः शोभनेन तद्वान् भूयासम् । त्वमपि गृहपतिना मया सुगृहपतिर्भूयाः । कियन्तं कालमित्याह-शतं हिमाः शतं वर्षाणि हि मर्त्यानाम् । 'शतं त्वा हेमन्तानिन्धिषीय '* इति ब्राह्मणम् । तावन्तं कालमिदमित्थं भवतु । किञ्च-तामाशिषं, अनागताभिप्रेतार्थप्रार्थनमाशीः, तामाशासे प्रार्थये । यहा-आशासनीया आयुरादिसर्वसम्पदाशीः, तामाशासे । 'आशासः क्वौ' इतीत्वम् । कीदशी ? ज्योतिष्मती दीप्तिमती ब्रह्मवर्चसप्रधानाम् । कस्मै ? तन्तवे अजातापत्यविषयमिदं; *सं. १-५-८19. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy