________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. ६.]
भट्टभास्करभाष्योपेता
181
वसुरग्निर्वसुश्रवाः । अच्छो नक्षि द्युमतमो रयिं दाः । ऊर्जा व पश्याम्यार्जा मा पश्यत रायस्पो
षेण वः पश्यामि रायस्पोषेण मा भ्यः। वसुः । अग्निः । वसुश्रवा इति वसुश्रवाः । अछे । नक्षि । द्युमतम इति धुमत्तमः । रयिम् । दाः । ऊर्जा । वः । पश्यामि । ऊर्जा । मा । पश्यत । रायः । पोषण।
श्वसुरिति ॥ वसुः वसुमान् । मत्वर्थीयो लुप्यते । अग्निः अङ्गनादिगुणयुक्तः वसुश्रवाः वासयतीति वसुः तादृशं श्रवणं यस्य तादृशः । वसुभिर्वा श्रूयत इति वसुश्रवाः । 'गतिकारकयोरपि इति पूर्वपदप्रकृतिस्वरत्वञ्च ' इत्यसुन् । स त्वमस्मानच्छ आभिमुख्येन नक्षि प्राप्नुहि । ' निपातस्य च ' इति संहितायां दीर्घत्वम् । नशतिर्गतिकर्मा, 'बहुळं छन्दसि' इति शपोलुक् । अस्मान् प्राप्य चास्मभ्यं द्युमत्तमः दीप्तिमत्तमः त्वं रयिं धनं दाः देहि । दधातेलिटि पूर्ववच्छपोलुक् । 'हस्वनुड्याम्मतुप्' इति द्योर्मतुप उदात्तत्वम् ॥
पुनश्च गृहांश्च पशूश्योपतिष्ठते-ऊर्जा व इति । एतानि यजूंषि ॥ ऊर्जा क्षीरादिना रसेन समग्रास्सदा वः पश्यामि । यूयमपि उर्जा रसेन स्नेहेन बलेन वा सहितं मां पश्यत । किञ्च-रायो धनस्य पुत्रपश्वादिलक्षणस्य घासादिलक्षणस्य वा पोषेण वृद्धया वः पश्या
For Private And Personal