SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 180 तैत्तिरीयसंहिता का. १. प्र. ५. स्वा नस्स्वस्तये । अग्ने ॥ २२॥ त्वं नो अन्तमः । उत त्राता शिवो भव वरूयः । तं त्वा शोचिष्ठ दीदि वः। सुम्नाय नूनमीमहे सखिभ्यः। भव । सर्चस्व । नः । स्वस्तये । 'अग्नै ॥ २२ ॥ त्वम् । नः । अन्तमः । उत । त्राता । शिवः । भव । वरूथ्यः । तम् । त्वा । शोचिष्ठ । दीदिवः। सुम्नाय । नूनम् । ईमहे । सखिभ्य इति सखि___ 'अग्ने त्वं न इति ॥ हे अग्ने त्वं नः अस्माकमन्तमः अन्तिकतमः सन्निकृष्टतमः । तमे तादेश्च' इति तादिलोपः । उत अपिच त्राता रक्षकः भयेप्विति गम्यते । शिवः सुखकरः सर्वदा भव अस्माकं वरूथ्यः गृहे भवः नित्यसन्निहितः । दिगादित्वाद्यत् । वरूथाय गृहाय वा हितः वरूथ्यः । उगवादिष्टव्यः ॥ तं त्वेति ॥ शोचिष्ठ दीपयितृतम 'तुश्छन्दसिं' इतीष्ठन् । 'तुरिष्ठेमेयस्सु' इति टिलोपः । यहा-शोचस्वितम | ‘विन्मतोर्लुक् ' । हे दीदिवः दीप्यमान जिगीषन्वा । दिवेलिटः क्वसुरादेशः, 'तुजादीनाम् ' इत्यभ्यासस्य दीर्घत्वम् । तं त्वां तादृशमन्तिकतमत्वादिगुणविशिष्टं त्वां सुम्नाय धनाय सुखाय वा ईमहे याचामहे । नूनमिति पादपूरणे निश्चये वा । यद्वानूनं नूतनं अभूतपूर्व तं त्वां सखिभ्यः समानख्यानेभ्यः सुहृदयसुहृद्यः । ‘क्रियाग्रहणं कर्तव्यम्' इति कर्मणस्सम्प्रदानत्वात्सुम्नायेति चतुर्थी ॥ For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy