________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. ६.]
भभास्करभाष्योपेता
179
जन्तमध्वराणी गोपामृतस्य दीदिविम् । वर्धमान स्वे दमै । स नः
पितेव सूनवेग्नै सूपायनो भव। सर्चगोपामिति गो-पाम् । ऋतस्य । दीदिविम् । वर्धमानम् । स्वे । दमे । सः । नः । पिता। इव । सूनवै । अग्ने । सूपायन इति सु-उपायनः ।
गोपां गोतारम् । गोपायतेः विप् अतोलोपवलिलोपाप्टक्तलोपाश्च । ऋतस्य यज्ञस्य सत्यस्य च गोप्तारम् । यद्वा-अध्वराणां राजन्तं गोपां रक्षितारं स्वयं सर्वदा दीदिविं दीप्यमानम् । अथवाअध्वराणां यज्ञानां राजानम् । ऋतस्य ऋतेन यज्ञेन सत्येन वा दीदिविं प्रकाशयितारं गोपां गवां पातारम् । अस्मिन्पक्षे अवग्रह उपपद्यते । 'दीर्घश्चाभ्यासस्य' इति क्विन्प्रत्ययः । वर्धमानं समिद्भिहविभिश्च स्वे दमे नः गृहे अग्निहोत्रवेश्मनि । तं त्वामुपेमसीति ॥ .
स न इति ॥ हे अग्ने स त्वं नः अस्मभ्यं पितेव सूनवे तात इव पुत्राय सूपायनः सूपचरणः सुखेनोपचरणीयः परिचरणीयो वा भव । 'छन्दसि गत्यर्थेभ्यः' इति युच् । शोभनोपायनो वा । किञ्च-नः अस्मान् स्वस्तये अविनाशाय सचस्व सङ्गच्छस्व मा कदाचिदपि मुचः । 'अन्येषामपि दृश्यते' इति संहितायां दीर्घत्वम् । स्वस्तय इति विभक्तयन्तप्रतिरूपोव्ययः* ॥
*क-पो निपातः.
For Private And Personal