SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 178 तैत्तिरीयसंहिता का. १. प्र. ५. उप त्वाग्ने दिवेदिवे दोषावस्तधिया वयम् । नमो भरन्त एमसि । रामाय । वः । रायः । श्रयन्ताम् । 'उपेति । त्वा । अग्ने । दिवेर्दिव इति दिवे-दिवे । दोषावस्तरिति दोषा-वस्तः । धिया । वयम् । नमः। भरन्तः । एति । इमसि । 'राजन्तम् । अध्वराणाम् । गार्हपत्यमुपतिष्ठते-उप त्वाग्न इति तिसृभिर्गायत्रीभिः । अग्ने त्वं न इति चतसृभिर्द्विपदाभिर्विराडायत्रीभिश्च । 'जागतगायत्राभ्यां विराङ्गायत्री'* इति । 'गायत्रीभिरुप तिष्ठते । इत्यादि ब्राह्मणम् । उप त्वेति प्रथमा ॥ हे अग्ने वयं दिवेदिवे यत् दिनेदिने धिया प्रज्ञया कर्मणा वा त्वामुपेमसि उपेम उपगच्छामः 'इदन्तो मसि' । किं कुर्वन्त इत्याह-दोषावस्तः रात्रावति च सायं प्रातश्च नमो भरन्तः नमस्कारमाभरन्तः आहरन्तः नमस्कुर्वन्तः त्वामुपेम इति । त्वं चास्माकमुपकुर्विति शेषः । 'हग्रहोर्भः ।। भरतिर्वा भौवादिकः भृञ् भरणे इति । 'सुपां सुलुक्' इति दिवसवाचिनो दिवशब्दात्परस्य सप्तम्येकवचनस्य शे आदेशः । प्रगृह्यत्वं तु स्यात् । व्यत्ययेन वा चतुर्थी । 'उडिदम्' इति विभक्तेरुदात्तत्वम् । 'अनुदात्तं च ' इति द्वितीयं निहन्यते । दोषावस्तरिति कार्तकौजपादिषु द्रष्टव्यः । ‘सावेकाचः' इति धियो विभक्तिरुदात्ता ॥ राजन्तमिति द्वितीया--राजन्तं दीप्यमानं अध्वराणां यज्ञानां *तृतीयं द्विपाज्जागतगायत्राभ्याम् ' पिं. (३-१६) इत्येव दृश्यते। सि. १-५.८१०. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy