SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. ६ भभास्करभाष्योपेता गात बह्वी, भूयास्त ॥ २१ ॥ स हितासि विश्वरूपीरा मोर्जा विशा गौपत्येना रायस्पोषेण सहस्रपोषं वः पुष्यास मर्यि वो रायश्श्रयन्ताम् । भूयास्त ॥ २१ ॥ सर हितेति सं-हिता।असि । विश्वरूपीरिति विश्व-रूपीः । एति । मा। ऊर्जा । विश । एति । गौपत्येन । एति । रायः । पोषेण। सहस्रपोषमिति सहस्र-पोषम् । वः । पुष्यासम्। -- अग्निहोत्रीवत्समभिमृशति-संहितेति ॥ संहिता संयुक्ता मात्रा असि भव । मात्रा वियुक्ता मा भूः। विश्वरूपीः नानारूपवती मत्वर्थीय ईकारः । सा त्वं मामूर्जा क्षीरादिना रसेन आविश । क्षीरादेतृत्वेन मत्सम्बन्धिनी भव । 'सावेकाचः' इत्यू! विभक्तिरुदात्ता। गौपत्येन च मामाविशेत्येव । गवां पतिः स्वामी तद्भावो गौपत्यम् । पत्यन्तलक्षणो यत् । यथाहं गोपतिर्भवानि तथा मयि वर्तस्व । रायो धनस्य पोषेण पुष्टया च मामाविश मदीयानि धनानि पोषयन्ती स्वजन इव मम भव । 'उडिदम् ' इति रायो विभक्तिरुदात्ता । 'षष्ठ्याः पतिपुत्र' इति सत्वम् । किं बहुना, वः युष्माकं सहनपोषं बहुप्रकारमहं पुष्यासं पौष्कल्येनोद्भावयिषीय बह्वीनां युष्माके सम्बन्धी भूयासम् । गोपोषं पुष्णातीतिवत् सामान्यवचनोन्यत• रो द्रष्टव्यः । वः युष्माकं रायो धनानि क्षीरादीनि मयि श्रयन्तां अविच्छेदेन सन्ततं वर्धन्ताम् ॥ 23 For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy