SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनु. ५. ] www.kobatirth.org भट्टभास्करभाष्योपेता Acharya Shri Kailashsagarsuri Gyanmandir 173 । सु॒वीरा॑सो॒ अदा॑भ्यम् । अग्ने॑ सपत्न॒दम्भ॑नं॒ वर्‌षि॑ष्ठे अधि॒ नार्के । सं त्वम॑ग्ने॒ सूर्य॑स्य॒ वर्च॑सागथा॒स्समृर्षीणाः स्तु॒तेन॒ सं प्रि॒येण॒ धाम्ना॑ । कृ॒त॑म् । सु॒वीरा॑स॒ इति॑ सु॒वीरा॑सः | अदा॑भ्यम् । अग्ने॑ । स॒पत्न॒दम्भ॑न॒मति॑ स॒पत्न- दम्भ॑न॒म् । वर्षष्ठे । अधीति । नाके । समिति॑ । त्वम् । अ॒ग्ने । सूर्यस्य । वर्चसा । अ॒ग॒थाः । समिति॑ । ऋषी॑णाम् । स्तु॒तेन॑ । समिति॑ प्रि॒येण॑ । धान । त्वम् । अग्ने । सूर्यवर्चा इति॒ सूर्यं व॒र्चाः । अ॒सि॒ । समिति॑ । 1 1 1 सपत्नानां अनिष्टानां विनाशयितारं स्वयं केन चिदप्यदाभ्यम् । दभिः प्रकृत्यन्तरमस्तीत्याहुः । अतो ण्यत् । वर्षिष्ठे वृद्धतमे नाके सुखैकरूपे अस्मिन् स्थाने स्वर्गसदृशे अधि उपरि त्वामिन्धानां वयमीदृशा भूयास्मेति । प्रियस्थिरादिना वृद्धशब्दस्य वर्षा देशः ॥ For Private And Personal "पुनरुपतिष्ठते —सं त्वमन इति । इयं जगती वृद्धपदा || हे अग्ने त्वं सूर्यस्य वर्चसा दीप्त्या समगथाः सङ्गच्छसे । छन्दसो लुङ्, 'समो गमृच्छि ' इत्यात्मनेपदम्, 'मन्त्रे घस' इति च्लेर्लुक्, ' वागमः ' इति सिचः कित्त्वम् । ऋषीणां मन्त्रद्रष्टृणां मन्त्राणां वा स्तुतेन स्तुत्या च समगथाः इत्येव । प्रियेण च धाम्ना स्थानेनाहवनीयेन समगथाः सम्पृक्तासि । यस्मादेवं तस्मात् हे अग्ने त्वं सूर्यवर्चाः सूर्येण तुल्यतेजा असि । यद्वा - सूर्यस्य वर्चस्त्वमसि ।
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy