________________
Shri Mahavir Jain Aradhana Kendra
172
www.kobatirth.org
तैत्तिरीय संहिता
Acharya Shri Kailashsagarsuri Gyanmandir
[का. १. प्र. ५.
म॑रा॒येन्धनास्त्वा श॒त ँ हिमा॑ द्यु॒मन्त॒स्समि॑धीमहि॒ वर्यस्वन्तो वय॒स्कृतं॒ यश॑स्वन्तो यशस्कृत
15
1
1
स्व॒स्ति । ते । पा॒रम् । अ॒शय॒ । " इन्धा॑नाः । त्वा॒ । श॒तम् । हिमा॑ः । द्यु॒मन्त॒ इति॑ द्यु॒मन्त॑ः । समिति॑ । इ॒ध॒म॒हि॒ । वय॑स्वन्तः । व॒य॒स्कृत॒मिर्त वयः—–कृ॒त॑म् । यश॑स्वन्तः । य॒स्कृत॒मति॑ यशः -
For Private And Personal
" आहवनीये समिधमादधाति — इन्धाना इति सप्तपदया शकर्या ॥ हे अग्ने इन्धानाः ज्वलन्तः । ' विभाषा वेण्विन्धानयोः ' इत्याद्युदात्तत्वम् । शतं हिमाः संवत्सरान् हेमन्तान्वा । हिमा इति ऋतोस्त्रीलङ्गत्वं वर्षा इति [ इति वत् ? ] । वर्षशतेन शतं हेमन्ता भवन्तीति वर्षमेवाशंसितम् । शिशिरे शीतेन हेमन्ते प्रजानां पीडनात् तेन लक्ष्यते संवत्सरः । यदा हिमशब्देन हेमन्तऋतुर्लक्ष्यते स च मत्वर्थियाच्प्रत्ययान्तः स स्त्रियां वर्तते । द्युमन्तः दीप्तिमन्तः । ‘ह्रस्वनुयाम् ' इति मतुप उदात्तत्वम् । समिधीमहि सम्यक् दीपयामः त्वामिन्धाना वयमपि द्युमन्तस्समिधीमहि । पूर्ववच्छपो लुक् । ततश्च त्वत्प्रसादाद्वयस्वन्तोन्नवन्तो वयमायुष्मन्तो वा; वयोनामायुषोंशः । वयस्कृतं वयस्कर्तारं सम्पूर्णवयसो दातारं त्वाम् ।
"
अतः कृकमि ' इति सत्वम् | यशस्वन्तः सत्कीर्तिमन्तो वयं त्वत्समाराधनेन त्वां यशस्कृतम् । गतम् । सुवीरासः कल्याणपुत्रादिका वयम् । ‘आज्जसेरसुक्' । ' वीरवीर्यौ च' इत्युत्तरपदाद्युदात्तत्वम् । अदाभ्यं अनुपर्हिसितं बाधितुमशक्यं त्वां सपत्नदम्भनं