SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. ५.] भभास्करभाष्योपेता 171 स्यायुर्मे ॥१९॥देहि वक़दा अग्नोस वर्गों मे देहि तनूपा अंग्नेसि तनुवै मे पाह्यग्ने यन्मे तनुर्वा ऊनं तन्म आ पुंग चित्रावसो स्वस्ति ते पारमे ॥ १९ ॥ देहि । वक़दा इति वर्चः-दाः । अग्ने । असि । वचः । मे। देहि । तनूपा इति तनू-पाः । अग्ने । असि । तनुवम् । मे । पाहि । अग्ने । यत् । मे। तनुवाः । ऊनम् । तत् । मे। एति । पृण । "चित्रावसो इति चित्र-वसो । युर्दाः आयुषोन्नस्य जीवितस्य वा दातासि तस्मादायुर्मे देहि । एवमुत्तरत्रापि द्रष्टव्यम् । वर्षों बलं दीप्तिर्वा । तनूनां शरीराणां पाता तनूपाः । सर्वत्र ‘आतो मनिन्' इति विच् । हे अग्ने उनं विकलीभूतं छिन्नं भिन्नं वा यन्मे तनुवाः तन्वा उनं तन्मे त्वां भजमानस्य आप्टण आपूरय । यद्वा-यन्मे तन्वाः तनुस्थानीयानां प्रजानां पशूनां ऊनं तदापूरय । टण प्रीणने अत्रापूरणे वर्तते । ' तन्वादीनां छन्दसि बहुलम् ' इत्युवङादेशः ॥ "रात्रिमुपतिष्ठते-चित्रावसो इति ॥ चित्राः नानारूपाः चायनीया वा । वसवो वसून्यावसनानि वस्तारो वा यस्यां सा चित्रावसुः रात्रिः । साहितिकं दीर्घत्वम् । त्वयि वसन्ति सर्वेपि सुखेन अतोहमपि ते तव पारं समाप्ति व्युष्टिं स्वस्ति अविनाशेन सुखन अशीय प्राप्नुयां त्वत्प्रसादेन । अश्नोतेलिङि शपो लुक् ॥ For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy