________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
170
तैत्तिरीयसंहिता
का.१. प्र.५.
उप यज्ञ हविश्व नः । अग्निश्शुचित्रततमश्शुचिर्विप्रश्शुचिः कविः। शुची रोचत आहेतः । उर्दग्ने शुचयस्तव शुक्रा भ्राजन्त ईरते । तव
ज्योतीप्यर्चयः । आयुर्दा अंग्नेयज्ञम् । हविः । च । नः । "अग्निः। शुचिव्रततम इति शुचिव्रत-तमः । शुचिः । विप्रः । शुचिः । कविः । शुचिः। रोचते । आहुत इत्या-हुतः। "उदिति । अग्ने । शुचयः । तव । शुक्राः । भ्राजन्तः । ईरते । तव । ज्योती षि । अर्चयः। "आयुर्दा इत्या॑युः-दाः । अग्ने । असि । आयुः ।
1"एकादशी-अयमग्निश्शुचिव्रततमः स्वयमेव तावत् शुद्धसकर्मतमः विप्रत्वान्मेधावित्वाच्च शुचिः । कवित्वात्क्रान्तदर्शनत्वाच्च शुचिः; वशीकृतवाङ्मयत्वाहा । एवं सर्वात्मना आहुतः शास्त्रोक्तवर्मनाऽस्माभिराहुतः प्रतीतहविर्लक्षणोयं रोचते तेजिष्ठो भवति ॥
"द्वादशी–हे अग्ने तव शुचयः तेजांसि शुक्राः निर्मलाः भ्राजन्तः दीप्यमानाः उदीरते उद्गच्छन्ति तवैव स्वभूतानि सर्वाण्यादित्यादीनि ज्योतींषि । अर्चयः अर्चयितारः यागादिभिराराधयितारः ज्योतींषि भवन्ति ज्योतीरूपास्सम्पद्यन्ते । एवम्महानुभावस्त्वमस्मदभिमतं क्षिप्रं प्रयच्छेति भावः ॥
तत्राहवनीयमेवोपतिष्ठते-आयुर्दा इति ॥ हे अग्ने त्वमा
For Private And Personal