________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
164
तैत्तिरीयसंहिता
[का. १. प्र. ५.
नये। आरे अस्मे च शृण्वते । अस्य
प्रत्नामनु द्युत शुक्र दुदुढे अह्रयः। च । शृण्वते । अस्य । प्रनाम् । अन्विति । युतम् । शुक्रम् । दुदुढे । अह्रयः । पयः । सहस्रसामिति
दु
यन्तः उपेत्य प्रकर्षेण गच्छन्तः अध्वरं यज्ञं अविच्छेदेन गच्छन्तः कुर्वन्तो वयं मन्त्रं वोचेमत्याशास्यते, उपस्थानमन्त्रस्य वक्तारो भूयास्मेति । वचेरशिषि लिङ् 'लिडाशिष्यङ्' 'वच उम्' । अग्नये अग्रयर्थम् । कीदृशायानये? आरे दूरे च अस्मे अस्माकं शृण्वते श्रुत्वा वचनार्थं कुर्व ते सर्वदा तं मन्त्रं वोचेम उच्यास्मेत्यविच्छेदेन आशास्यते ॥
"द्वितीया-अस्य प्रत्नामिति गायत्री ॥ अस्याग्नेः प्रत्नां पुरातनी अनुद्युतम् । अनुद्युदिति दीप्तिनाम । सम्पदादिलक्षणः क्विप् । गोस्थानीयां दुदुढे दुहन्ति । छान्दसे लिटि 'इरयो रे' इति रे आदेशः । अद्वयः अहियः अलज्जमाना ऋत्विजः । जिहतेः कर्तरि क्विप् । व्यत्ययेन द्वस्वत्वम् । औणादिको वा डिप्रत्ययः । अहोतेर्वा क्रिन्प्रत्ययः । ज्ञातार उच्यन्ते । किं दुदुद्वे ? शुक्र सारं निर्मलं वा पयः उदकम् । दीप्तिर्विशेष्यते--सहस्रसां बहुनो धनस्य सनित्री सम्भक्त्री ऋषि अर्षणि दृष्टिम् । सनोतेः 'जनसनखन' इति विट् , 'विड्डनोः' इत्यात्वम् । तस्माद्वयमप्यनेनोपस्थानेन तां दुह्म इति. ॥
For Private And Personal