SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. ५.] भभास्करभाष्योपेता 165 पर्यस्सहस्रसामृषिम् । अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् । अपार रेता सि जिन्वति।अयमिह सहस्र-साम् । ऋषिम् । अग्निः । मूर्धा । दिवः । ककुत् । पतिः । पृथिव्याः । अयम् । अपाम् । रेतासि । जिन्वति । अयम् । इह । प्रथमः । तृतीया-अग्निरिति गायत्री ॥ अयमग्निर्मूर्धा प्रधानभूतः दिवः द्युलोकस्य ककुत् उच्छूितः आत्मेत्यर्थः अर्यमात्मना दिवो मूर्धत्वेन वर्तत इति । अयमेव पृथिव्याः पतिः पाता ; अग्निर्हि पृथिव्यात्मना वर्तते । सोयमपां रेतांसि कार्यभूतानि स्थावरजङ्गमाख्यानि माध्यमिकाग्निरूपेण जिन्वति वृष्टया तर्पयति । 'उडिदम्' इति षष्ठ्या उदात्तत्वम् । 'उदात्तयणः' इति पृथिव्याः ।। ___ *चतुर्थी--अयमिहेति जगती ॥ अयमग्निः प्रथमः प्रधानभूतः धायि धार्यतेस्माभिः धातृभिः धारणाय यतमानैः होता आह्वाता देवानां यजिष्ठः यष्टतमः । मनुष्यहोतृनपेक्ष्य प्रकर्षः । यष्टशद्वात् 'तुश्छन्दसि' इतीष्ठनि 'तुरिष्ठेमे यस्सु' इति टिलोपः । अध्वरेषु यज्ञेषु ईयः स्तुत्यः । 'ईडवन्द' इत्याद्युदात्तत्वम् । अयमित्युक्तम् ; कीदृशोयमित्याह-यं चित्रं चायनीयं विभुवं ब्याप्तिमन्तम् । तन्वादित्वादुवङ् । भृगवः विरुरुचुः विविधं रोचयामासुः । ण्यन्ताल्लिटि 'बहुलमन्यत्रापि' इति णिलुक् । कीदृशाः अनवानः अग्न इति कर्मनाम तद्वन्तः । 'छन्दसीवनिपौ' इति For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy