________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
162
तत्तिरीयसंहिता
[का. १. प्र. ५.
यतः परि गृह्णात्याढित्या वा अस्माल्लोकादमुं लोकायन्तैमुष्मिन्लोके व्यतृष्यन्त इमं लोकं पुनरभ्यवेत्याग्निमाधायैतान होमानजुहवुस्त आर्भुवन्ते सुवर्ग लोकायन्
यःपराचीन पुनराधेादग्निमादधीत च । उभयतः । परीति । गृह्णाति । आदित्याः । वै । अस्मात् । लोकात् । अमुम् । लोकम् । आयन्न् । ते । अमुष्मिन्न् । लोके । वीति । अतृष्यन् । ते। इमम् । लोकम् । पुनः । अभ्यवेत्येत्यभि-अवेत्य । अग्निम् । आधायेत्या-धार्य । एतान् । होमान् । अजुहवुः । ते । आर्भुवन्न् । ते । सुवर्गामति सुवः-गम् । लोकम् । आयन्न् । यः । पराचीनम् । पुनराधेयादिति पुनः-आधेयात् । __ 'आदित्या इत्यादि ॥ भूलोकाद्दयुलोकं गताः ऋद्वयर्थं कृतपुनराधानाः आदित्याः । तत्र च ते व्यतृष्यन् भूयोपि ऋष्यभावेन विविधं तृष्यन्तोभवन् । तृषा पिपासायां देवादिकः । ततस्ते पुनरपि इममेव लोकमभ्यवेत्य अभ्यावृत्य तृतीयमग्निमाधाय एतान् 'लेकः '* इत्यादीन् होमानजुहवुः ऋद्धाः स्वर्गं गताः । य इत्यादि । पराचीनं पुनराधेयात् पुनराधेयानन्तरं तृतीयमित्यर्थः ।
____ *सं. १-५-३ 11-13
-
-
-
For Private And Personal