________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
10
तैत्तिरीयसंहिता
[का. १. प्र. ४.
वाचस्पतये पवस्व वाजिन्वृषा 'वाचः । पतये । पवस्व । वाजिन्न् । वृषो । पुतं राजानं नामैतज्जह्यात् कपालावस्थायां घटमिव घटशब्दः ; ततश्च, 'प्राणा वा अंशवः पशवस्सोमः '* इति सोमे अंशुहीने पशवः प्राणहीनास्स्युः ; तस्मात् 'अंशूनपगृह्णाति त्रायत एवैनम् '* इति प्राणभूता अंशवः प्रथमं गृह्यन्ते ; तस्यैवा-1 भिषूयमाणस्य सङ्घातस्याप्राणत्वप्रसङ्गात् , तन्मा भूदिति द्वौद्वावंशू अपिसृज्यते । एवं च सत्ययं प्राणवान्भवति, सोमशब्दथैनं न जहाति, पशवश्च प्राणवन्तो भवन्तीति । प्राणभूताभ्यामंशुभ्यां सहाभिषुतत्वात् , अभिषुतस्यापि सोमशब्दवत्त्वात् अभिषुतमपि सोमशब्दो न जहातीति । सोमाय स्वाहेति, ‘नमस्स्वस्तिस्वाहा , इत्यादिना चतुर्थी । यथाग्नचादीनां स्वाहाकारेण स्थितिरेवमस्यापि तादर्थे चतुर्थी वा, सोमाय सोमशब्दस्थित्यर्थं एतौ प्रक्षिप्येते इति । ततश्च विभक्तिसंयोगात्स्वाहेत्यागन्तः(?) । द्वाभ्यामेव च प्राणवत्त्वस्य सिद्धेः द्वौद्धावेवांशू प्रक्षिप्यते । तस्माद्वावेव पशूनां चक्षुरादयः प्राणाः । अत्रांशूनामवग्रहणप्रदेशे महाभिषवकालभाविनोपिसर्जनमन्त्रस्य प्रासङ्गिकमानानम् , यथोपधानप्रदेशे ' यानि धर्मे ' इति कपालविमोकमन्त्रस्य ।
__ इति चतुर्थे प्रथमः,
'उपांशुग्रहं गृह्णाति । 'प्राणो वा एष यदुपांशुः' इत्यादि ब्राह्मणम् । अयं च त्रिर्हस्तेन गृह्यते । 'ब्रह्मवादिनो वदन्ति *सं. ६-४-४.
ख-ग.-तथाचा. ख. यद्वा अग्नयादीनां तादर्थं चतुर्थी. एवमस्यापि तादर्थे वा चतुर्थी. सं.१-१-७12
पसं.६.४.५.
For Private And Personal