________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. २.]
भभास्करभाष्योपैता
न यजुः कर्तव्यमित्यथो खलु सम्भृत्या एव सम्भाराः कर्तव्य यजुय॒ज्ञस्य समृद्धयै पुनर्निष्कृतो रथो
दक्षिणा पुनरुत्स्यूतं वासः पुनरुत्सृयर्जुः । कर्तव्यम् । इति । "अथो इति । खलु । सम्भृत्या इति सं-भृत्याः । एव । सम्भारा इति सं-भाराः । कर्तव्यम् । यजुः । यज्ञस्य । समृद्धया इति सं-ऋद्धयै । "पुनर्निष्कृत इति पुनः-निष्कृतः। रथः। दक्षिणा । पुनरुत्स्यूत्तमिति पुनः-उत्स्यूतम् । वासः । पुनरुत्सृष्ट इति पुनः उत्सृष्टः । अनडान् । पुनराधेयस्योति पुनः-आधेयस्य । समृद्धया इति सं-ऋयै ।
"एतद्दूषयति-अथो खलु वयं ब्रूमः सम्भृत्या एवेति ।। गतम् ।
"पुनर्निष्कत इत्यादि ॥ पुनर्निष्कृतः पुनस्संस्कृतः । पुनरुत्स्यूतं पुनस्संस्कृतमेव संहितच्छिद्रम् । षिवेनिष्ठायां ‘च्छोश्शूडनुनासिके च' इत्यू । पुनरुत्सृष्टः अवशीर्णगवः । एते पात्रे सम्मितादयो द्रष्टव्याः, उपपदसमासो वा । मृदुत्तरपदप्रकृतिस्वरत्वम् । 'पुनश्चनसौ छन्दसि' इति गतित्वात् गतिसमासो वा । प्रवृद्धादेराकतिगणत्वादुत्तरपदान्तोदात्तत्वम् ॥
19
.
For Private And Personal