________________
Shri Mahavir Jain Aradhana Kendra
144
www.kobatirth.org
तैत्तिरीयसंहिता
Acharya Shri Kailashsagarsuri Gyanmandir
[का. १. प्र. ५.
रोडाश॑ः प॒शव॑ ए॒ते आहु॑ती यभित॑ः पुरोडाश॑मे॒ते आहु॑ती ॥ ७ ॥ जु॒होति॒ यज॑मानमे॒वोभ॒यत॑ः प॒शुभिः॒ परि॑ गृह्णाति कृ॒तय॑जुस्सम्भृतसम्भार॒ इत्या॑हु॒र्न स॒म्भृत्या॑स्सम्भारा
10
इति॑ । आहु॑ति॒ इत्या - हुती । यत् । अ॒भित॑ः । पु॒रोडाश॑म् । ए॒ते इति॑ । आहु॑ति॒ इत्या - हुती ॥ ७ ॥ जु॒होति॑ । यज॑मानम् । ए॒व । उ॒भ॒यत॑ः । प॒शुभि॒रिति॑ प॒शु–भि॒ः। परीति॑ । गृ॒ह्म॒ति॒ । “कृ॒तय॑जुरिति॑ कृ॒तय॒जुः । सम्भृ॑तसम्भार॒ इति॒ सम्भृत- स॒म्भा॒र॒ः । इति॑ । आ॒द्दुः । न । स॒म्भृत्या॒ इति॑ संभृत्या॑ः । स॒म्भारा इति॑ सं- भा॒राः । न ।
1
I
पशव इति । तद्धेतुत्वात्ताच्छब्द्यम् । स्वयं पशव एव पुनरुर्जा निवर्तस्व सह रय्या निवर्तस्वेत्येते आहुती । यदभित इति । अभितः पुरस्तादुपरिष्टाच्च पुरोडाशहोमस्य । ' अभितः परितः' इति द्वितीया । गतमन्यत् ॥
For Private And Personal
"कृतयजुरिति ॥ कृतस्तम्बयजुरग्न्याधेयेन सम्भृताश्च सम्भाराः । तस्मादत्र न सम्भृत्याः न सम्भरणीयास्सम्भाराः न यजुः कर्तव्यमित्याहुरेके आचार्याः । ' भृञोसंज्ञायाम् ' इति क्यप् ॥