________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
142
- तैत्तिरीयसंहिता
का. १. प्र. ५.
यज॑मानस्यार्पराभावाय ॥६॥ विभक्तिं करोति ब्रह्मैव तदकपाशु
यजति या वामं वसु विविदानो भावाय ॥ ६ ॥ विभक्तिमिति वि-भक्तिम् । करोति । ब्रह्म । एव । तत् । अकः । 'उपाश्वित्युप-अशु । यजति । यर्था । वामम् । वसु । विविदानः । गृहति । तादृक् । एव । तत् ।
'तादौ च ' इति गतेः प्रकृतिस्वरत्वम् । विधृत्यै विलक्षणावस्थानाय प्रयाजानामनचाधेयाद्वैलक्षण्यापादने वाचस्संसर्गदोषः परितियत इति ॥
विभक्तिमिति ॥ विभक्तिं वैलक्षण्यविभक्तिप्रदानमस्येति[मस्य) कर्मणो यत्करोति तेन हेतुना पुनराधेयं ब्रह्म परिबृढं अग्नयाधेयात् अकः करोति । छान्दसो लुङ्, 'मन्त्रे घस' इति च्लेलक। मन्त्र इति वेदमात्रस्य ग्रहणम् । यद्वा-लङि व्यत्ययेन शपो लुक् ।।
"उपाश्चिति ॥ सर्वो याग उपांशुः कर्तव्यः ओत्तमादनूयाजात्। 'उपाद्वयनजिनम् ' इत्युत्तरपदान्तोदात्तत्वम् । यथेति । यथा वामं वननीयं वरिष्ठं धनं मुषितं विविदानः लभमानः लब्धुं यतमानः तत् गृहति संवृणोति तादृक्तदुपांशुकरणम् । छान्दसस्य लिटः कानजादेशः ॥
For Private And Personal