________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. २.]
भभास्करभाष्योपेता
141
स्सं वा ए॒तस्य॑ गृहे वाक्सृज्यते योऽग्निमुद्दासयते स वाच स५सृष्टां यजमान ईश्वरोनु परभवि
तोर्विभक्तयो भवन्ति वाचो विधृत्यै एव । अस्य । ऋद्धिः । समिति । वै । एतस्य॑ । गृहे । वाक् । सृज्यते । यः । अग्निम् । उद्वासयत इत्युत्-वासयते । सः । वाचम् । स सृष्टामिति सं-सृष्टाम् । यज॑मानः । ईश्वरः । अन्विति । परभवितोरिति परा-भवितोः । विभक्तय इति वि-भक्तयः । भवन्ति । वाचः । विधृत्या इति वि-धृत्यै । यज॑मानस्य । अपराभावायेत्यपरा
अथ विभक्तिविधानार्थमाह-सं वा इति ॥ अस्य वागृहे संसृज्यते गृहवासिनां वाग्योगे न वैलक्षण्यं भजते । ततश्चाबहुमतवाक्त्वात् पराभवितोः पराभवितुमीश्वरस्स्यात् । ततश्चास्य गृहान् भावयितुमेव वरमिति । वक्ष्यति च-'आयतनादेव नैति'* इति । मूकत्वं वा वाक्संसर्गः । 'ईश्वरे तोसुन्कसुनौ' । लक्षणेनोः कर्मप्रवचनीयत्वम् । तस्मात् विभक्तयो भवन्तीति विधिः । विभज्यते व्यावय॑तेस्य वाग्भिरिति विभक्तयः 'अनाग्ने अग्नावग्ने अग्निनाग्ने अग्निमग्ने' इति चतस्त्रः । एताश्च चतुर्पु प्रयाजेषु देयाः नोत्तमे ।
*सं. १-५-२.०
-
For Private And Personal