________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
140
तैत्तिरीयसंहिता
का. १. प्र. ५.
धत्ते शताक्षरा भवन्ति शतायुः पुरुषश्शतेन्द्रिय आयुष्येवेन्द्रिये प्रति तिष्ठति यद्वा अग्निराहितो नय॑ते ज्यायो भागधेय निकामय॑मानो
यग्नेिय सर्वं भवति सैवास्यर्धिधत्ते । शताक्षरा इति शत-अक्षराः । भवन्ति । शतायुरिति शत-आयुः । पुरुषः । शतोन्द्रय इति शत-इन्द्रियः । आयुषि । एव । इन्द्रिये । प्रतीति । तिष्ठति । 'यत् । वै । अग्निः । आहित इत्या-हितः। न । ऋध्यते । ज्यायः । भागधेयमिति भाग-धेयम्। निकामयमान इति नि-कामयमानः । यत् । आग्नेयम् । सर्वम् । भवति । सा ।
. शताक्षरा इति ॥ उक्ता अक्षरपङ्यश्चतस्त्र इति । तत्रैकैका पञ्चविंशत्यक्षरा । सर्वास्सम्भूय शताक्षरा इति । शतायुश्शतवर्षः शतेन्द्रियश्शतवीर्यः आयुषीन्द्रिये च प्रतिष्ठितो भवति ॥
यहा इत्यादि ॥ येन नय॑ते ऋद्धिहेतुर्न भवति तज्जयायः प्रशस्यतरं अनचाधेयभागात् केवलानेयत्वात् पुनराधेयभागं तन्निकामयमानः तन्निभृतं आत्मनस्सम्पादयितुमिच्छन् ऋद्धिहेतुतामग्निर्न प्रतिपद्यत इति । आहितशब्दे 'गतिरनन्तरः' इति स्वरः । ततः केवलाग्नेयकरणेन ऋद्धिहेतुरयमिति । तस्मात् सर्वमानेयं कर्तव्यमिति विधिः ॥
For Private And Personal