________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
134
तैत्तिरीयसंहिता
का. १. प्र. ५.
त्वष्टाधत्त तेन त्वष्टोित्तस्मात्त्वाष्ट्राः पशव उच्यन्ते तं मनुराधत तेन मद्रार्धात्तस्मान्मानव्यः प्र॒जा उच्यन्ते तं धातार्धत्त तेन धाता त्संवत्सरो वै धाता तस्मात्संवत्सरं
प्रजाः पशवोनु प्र जायन्ते तस्मात् । त्वाष्ट्राः। प॒शवः।उध्यन्ते । तम् । मनुः । एति । अधत्त । तेनं । मनुः । आनोत् । तस्मात् । मानव्यः । प्रजा इति प्र-जाः । उच्यन्ते । तम् । धाता । एति । अधन । तेन । धाता । आोत् । संवत्सर इति सं-वत्सरः । वै । धाता । तस्मात् । संवत्सरमिति सं-वत्सरम् । प्रजा इति प्र-जाः । पशवः । अनु । प्रेति । जायन्ते ।
लेटि 'वैतोन्यत्र' इत्यैकारः । तच्च . तथा देवैः प्रतिश्रुतमिति गम्यते । तस्मात् पुनराधेयं कर्तव्यमिति विधिश्वानुमीयते । अनन्तरं च ऋद्धिकामाः पूषादयः तादृशेन पुनराधेयेन ऋद्धिं प्राप्ता इति दर्शयति-पूषेत्यादि । गतम् । पूष्णः स्वभूताः पौष्णाः पशवः । संवत्सरमिति । प्रजाः पशवश्च संवत्सरमनु प्रजायन्ते । लक्षणादिना अनोः कर्मप्रवचनीयत्वम् ॥
For Private And Personal