________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
'तैत्तिरीयसंहिता
का. १. प्र. ४.
मां हि सिष्टम्प्रागपागुदंगधराक्ता
स्त्वा दिश आ धावन्त्वम्ब निष्वर। मा । हि५ सिष्टम् । "प्राक् । अाक् । उद॑क् । अधराक् । ताः । त्वा । दिशः । एति । धावन्तु ।
स्तम्भयतं दृढं कुरुतम्, यथाभिषवकाले अभिघातेन युवयोविश्लेषो न भवति तथा कुरुतम् । वीडुशब्दाद्दढवाचिनः 'तत्करोति' इति णिच् । किञ्च, उर्ज रसं सोमलक्षणं दधाथां धारयतम् । किञ्च, उर्ज बलं मे मह्यं धत्तं दतम्, यजमानस्य यागं साधयितुमविनष्टं कुरुतमित्यर्थः । किञ्च, मा वां हिंसिर्फ अभिषवकालेभिघातेन युवयोहिँसाम्मा कार्यम् । अत एव मामपि युवां मा हिंसिष्टम् ॥ ___"होतृचमसेंशून्परिप्लावयति-प्रागिति ॥ प्राञ्चतीति प्राक् प्राची दिक् । ऋत्विगादिना क्विन्प्रत्ययः, वस्तुत्वेन विवक्षितत्वान्नपुंसकत्वम्, 'अनिगन्तोञ्चतावप्रत्यये' इति पूर्वपदप्रकृतिस्वरत्वम् । अपाक् प्रतीची । पूर्ववत्प्रत्ययस्स्वरश्च । उदक् उदीची । पूर्ववत्प्रत्ययस्स्वरश्च । अधराक् अधोदिक् । पूर्ववत्प्रत्ययः, कडुत्तरपदप्रकृतिस्वरत्वम् । प्रदर्शनार्थं चासामुपादानमन्यासामपि । एवंप्रकारा या दिशस्तास्सर्वास्त्वामाधावन्तु त्वत्समीपं गच्छन्तु । हे सोम ताभिरागताभिस्तत्स्थास्त्वदीया अंशवः सर्व एव समागता भवन्तीत्यभिप्रायः । 'सोमो वै राजा दिशोभ्यध्यायत् स दिशोनु प्राविशत् ' इत्यादि ब्राह्मणम्। ॥ किञ्च, अम्ब हे मातृ*ख-भवन्त्रि ,
सं.६.४.४.
For Private And Personal