________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. १.]
भट्टभास्करभाष्योपेता
131
पाक्रामत्तद्देवा विजित्यावरुरुत्समा
ना अन्यन्तदस्य सहसादित्सन्त अग्निः । नीति । अकामयत । तेन । अपति । अक्रामत् । तत् । देवाः। विजित्योत वि-जित्य । अवरुरुत्समाना इत्यव-रुरुत्समानाः । आन्विति । आयन्न् । तत् । अस्य । सहसा । एति ।अदित्सन्त।
त्कर्तुमिच्छन्तः अनिमन्वायन अन्वगच्छन् । अनुगम्य च तद्वसु अस्यास्गकाशात् सहसा बलेन विनैवानुज्ञया आदित्सन्त आदातुमैच्छन् । ततःप्रभृत्यग्निं रुद्रमाचक्षते रोदनेन निमित्तेन । 'रोदेर्णिलुक्क ' इति ण्यन्ताद्विधीयमानो रक्प्रत्ययो बाहुलकाकेवलादपि भवति । तस्य रुदतो यदश्रु नेत्रजलमशीयत न्यपतत् रजत रूप्यं हिरण्यमभवत् , हितरमणीयं वा । यहारूप्यस्वर्णयोर्हिरण्यमिति वर्तते (भवति) । तदिदानी रजतेन विशेष्यते-हिरण्यशब्दाभिधानं तु प्रशंसार्थम् । तस्माद्रनतमदक्षिण्यं अदक्षिणार्ह अश्रुजम् । हीति हेतौ । हिरण्यमप्यदक्षिणाहमिति प्रतिपादनार्थं पुनरपि हिरण्यग्रहणम् । ‘कडङ्करदक्षिणाच च' इति यत्प्रत्ययः, 'ययतोश्चातदर्थे' इत्युत्तरपदान्तोदात्तत्वम् । तस्मात् , बर्हिषि यज्ञे यो रजतं ददाति अस्य गृहे पुरा संवत्सरात् संवत्सरसमाप्तेः रुदन्ति रोदननिमित्तान्युत्पत्स्यन्ते । ‘यावत्पुरानिपातयोर्लट् ' । यहा---' सप्तमीपञ्चम्यौ कारकमध्ये' इति पञ्चमी । तस्मात् बर्हिषि रजतं न दद्यादिति । इदं प्रासङ्गिकमुक्तम् ॥
For Private And Personal