________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
130
तैत्तिरीयसंहिता
[का. १. प्र. ५.
पञ्चमः प्रपाठक:. देवासुरास्संयत्ता आसन्ते देवा विजयमुपयन्तोग्नौ वामं वसु संन्यदधतेदमु नो भविष्यति यदि नो
जेष्यन्तीति तदग्निन्यकामयत तेना'देवासुरा इति देव-असुराः । संयंता इति सं-यत्ताः । आसन्न् । ते। देवाः । विजयमिति विजयम् । उपयन्त इत्युप-यन्तः । अग्नौ । वामम् । वसु । सम् । नीति । अदधत । इदम् । उ । नः। भविष्यति । यदि । नः । जेष्यन्ति । इति । तत् ।
'देवाश्चासुराश्च संयत्ताः सङ्गामार्थमुद्युक्ताः आसन् अभवन् । यती प्रयत्ने, 'श्वीदितो निष्ठायाम् ' इतीट्प्रतिषेधः, सम्यग्यत्ता इति कर्तरि निष्ठा, तेन प्रादिसमासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । क्वचित् ते देवा विजयमुपयन्तः असुरान्विजयमानाः तेभ्यः पराजयमानेभ्योसुरेभ्यो यद्वामं वसु वननीयं वरिष्ठं वसु धनं समासादितवन्तः तत् सर्वमग्नौ न्यदधत सम्यक् सम्भूय निभृतं निहितवन्तः । कथं मन्यमाना इत्याह-इदमु न इति । इदं तावदस्माकमेव भविष्यति यद्यपि पुनरस्मानसुरा जेप्यन्तीति मन्यमाना अयमस्माकमग्निरस्माकमास्त इति तत्र संन्यदधतेति । तद्देवैरात्मनि निहितं वस्वग्निर्त्यकामयत आत्मसात्कर्तु मैच्छत् । ततस्स कामयमानस्तेन वसुना सहापाक्रामत् देवसकाशात्पलायत । अथ देवा असुरान्विजित्य तहामं वस्ववरुरुत्समानाः आत्मसा
For Private And Personal