________________
Shri Mahavir Jain Aradhana Kendra
126
www.kobatirth.org
तैत्तिरीय संहिता
शुच॑य॒स्तव॒ वि ज्योति॑षा ॥५४॥
Acharya Shri Kailashsagarsuri Gyanmandir
"वीति । ज्योति॑षा ॥ ५४ ॥
म॒घवा॑नं मन्दे॒ ह्य॑ग्ने॒ चतु॑र्दश च ( ॥ ४६ ॥ ) ॥ ४० ॥
[का. १. प्र. ४.
अर्चयोर्चयितारो यजमानाः ज्योतींषि ज्योतीरूपा भवन्ति स त्वमेवं महानुभावः उद्वापदोषमुपशमयेति ॥
14 तत्रैव याज्या - वि ज्योतिषेति त्रिष्टुप् ॥ इयमपि 'कृणुष्व पाजः '* इत्यत्र व्याख्याता । इह तु प्रतीकं गृह्यते । अयमनिहता ज्योतिषा विभाति विशेषेण भायात् अनेन हविषा । किञ्च - विश्वानि महित्वा माहात्म्यानि आविष्कृणुते आविष्कुर्वीत । किञ्च – अदेवीः अदेवनशीला आसुरीर्मायाः दुरेवाः दुष्प्रधर्षाः प्रसहते अभिभवेत् । किञ्च – शृङ्गे शृङ्गस्थानीये आत्मीये प्रधाने ज्वाले शत्रूणां वा हिंसके शिशीते तीक्ष्णीकुर्यात् । किमर्थम् ? रक्षसे विनिक्षे रक्षसो विनाशार्थं ज्वालाभ्यां निक्षणं चुम्बनं शोधनं वा विनाशोवेति स एव महानुभावोनिरनुगमनदोषमुपशमय्यात्मनः परापतितं ज्योतिरवरुन्ध इति ॥
-
*सं. १-२-१४
इति भट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये प्रथमकाण्डे चतुर्थप्रपाठके चत्वारिंशोनुवाकः
समाप्तः प्रपाठकः.
For Private And Personal