________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. (४६) ४०.]
भभास्करभाष्योपेता
125
युवा । हव्यवाडांस्यः। त्व, ह्यग्ने अग्निना विप्रो विप्रेण सन्थ्सता ।
सखा सख्या समिध्यसै । उदने हव्य-वाट् । जुह्वांस्य इति जुहु-आस्यः। त्वम् । हि । अग्ने । अग्निना । विप्रः । विप्रेण । सन्न् । सता । सो । सख्या । समिध्यस इति संइध्यसै । "उदिति । अग्ने । शुच॑यः । तवं ।
___ "तत्रैव याज्या-त्वं ह्यग्न इति गायत्री ॥ हे अने त्वमग्निनाभ्युद्धृतेन समिध्यसे सम्यगेवेध्यसे । कीदृशः कीदृशेनेत्याहविप्रो मेधावी विप्रेण मेधाविना समिध्यसे । अयमेकस्समिन्धनहेतुः । किञ्च-सन् प्राज्ञः स तादृशेनाग्निना समिध्यसे । 'हि च' इति निघातप्रतिषेधः, “तिङि चोदात्तवति ' इति गतेरनुदात्तत्वं, 'उदात्तवता तिडा' इति समासः, अदुपदेशाल्लसार्वधातुकानुदातत्वे यक उदात्तत्वम् । ईदृशस्त्वमभ्युद्धरणदोषमुपशमयेति शेषः ॥
_13 अग्नये ज्योतिष्मते पुरोडाशमष्टाकपालं निर्वपेद्यस्याग्निरुद्वतोहुतेग्निहोत्र उद्यायेत्* ' इत्यस्य पुरोनुवाक्या-उदग्न इति गायत्री ॥ व्याख्याता चेयं 'त्वमग्ने रुद्रः । इत्यत्र । इह तु प्रतीकमस्या गृह्यते । हे अग्ने तव शुक्रास्तेनोविशेषाः शुचयश्शुद्धाः भ्राजन्तः दीप्यमानाः उदीरते उद्गच्छन्ति । किञ्च-तवैव स्वभूतानि ज्योतीष्यादित्यादीनि अर्चयोचौषि च । यहा-तव *सं. २-२-४.
सं. १-३-१४28.
-
For Private And Personal