________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
120
तैत्तिरीयसंहिता
का.१. प्र४.
minw
रसैन तेजसा जातवेदो वि रोचसे। रक्षोहामीवचातनः । अपो अन्वचारिष रसैन समसृक्ष्महि । पर्य
स्वा अन आगमतं मा स संज 'अग्ने । रसैन । तेजसा । जातवेद इति जातवेदः । वीति । रोचसे । रक्षोहेति रक्षः-हा । अमीवचातन इत्यमीव-चातनः। अपः। आन्विति। अचारिषम् । रसैन । समिति । असृक्ष्महि । ___अनये रसवतेजक्षीरे चरुं निर्वपेद्यः कामयेत रसवान् स्याम् ' * इत्यस्य पुरोनुवाक्या-अग्ने रसेनेति गायत्री ॥ हे अग्ने जातवेदस्तेजसा रोचसे दीप्यसे । केन हेतुना ? रसेन रसयोगो मम यथा स्यादिति । यद्वा-रसेन मां योजयितुं तेजसा विरोचसे विशेषेण दीप्यस्व । यद्वा-तद्धेतुत्वात्ताच्छन्द्यम् , यथा नडलोदकं पादरोग इति, अस्मद्रसहेतुना तेजसा विरोचसे इति । इदं चास्त्वित्याह-रक्षोहा रक्षसां हन्ता अमीवचातनः अमीवानामाभ्यन्तररोगाणां च नाशयितास्माकं भव । क्षीरादिरससमृद्धिमस्माकं कुरु तद्भोगविघ्नहेतूंश्च रक्षःप्रभृतीन् सर्वांश्च रोगानाशयेत्यभिप्रायः ॥
तत्रैव याज्या-अप इत्यनुष्टुप् ॥ व्याख्याता चेयं 'उरुं हि' इत्यत्र । अपः कर्माण्यनुक्रमेण करोमि । रसेन संसृष्टो भूयासम् । हे अग्ने पयस्वान् हविप्मान् त्वामागमं तम्मा वर्चसा बलेन संसृति ॥ *सं. २-२-४,
सिं. १.४.३९.18
For Private And Personal