________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. (४६)४०.]
भट्टभास्करभाष्योपेता
119
उक्थउक्थे सोम इन्द्र ममाद नीथेनीथे मघानम् ॥५२॥ सुतासः । यदी सबाधः पितरं न पुत्रास्स
मानदक्षा अव॑से हवन्ते । अग्ने 'उक्थउक्! इत्युक्थे-उक्थे । सोमः । इन्द्रम् । ममाद । नीथेनीय इति नीथे-नीथे । मघानमिति मघ-वानम् ॥ ५२ ॥ सुतासः । यत् । ईम् । सबाध इति स-बाधः।पितरम् । न। पुत्राः। समानदक्षा इति समान-दक्षाः । अव॑से । हवन्ते।
"तत्रैव याज्या-उक्थउक्थ इति त्रिष्टुप् ॥ उक्थउक्थे शस्त्रेशस्त्रे सोम इन्द्रं ममाद मादयति तर्पयति । मदेर्ण्यन्ताच्छान्दसो लिट् , ' बहुळमन्यत्रापि ' इति णिलुक् । 'अनुदात्तं च' इति द्वितीयस्योक्थशब्दस्यानुदात्तत्वम् । किञ्च-नीथेनीथे स्तोत्रेस्तोत्रे सुतासः अभिषुतास्सोमाः मघवानं महाधनं इन्द्रं मादयति । आजसेरसुक् । किञ्च-यत् यदा खलु सबाधः बाधासहिताः शत्वादिभिर्बाधिता भवन्ति पुरुषाः । व्यत्ययेन समासान्तोदात्तत्वम् । तदा तेपि पितरन्न पितरमिव पुत्राः अवसे रक्षणाय इन्द्रमेव हवन्ते ह्वयन्ति । पूर्ववत्सम्प्रसारणम् । ईमित्यवधारणे । समानदक्षाः, दक्षः पिता, समानपितृका इत्यर्थः । इन्द्र एव सर्वेषां समानः पितेति ॥
For Private And Personal