________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
118
तैत्तिरीयसंहिता
का.१. प्र.४.
स्ति । त्वे सु पुत्र शवसोवृन्का
मकातयः। न त्वामिन्द्राति रिच्यते। स्वस्ति । त्वे इति । स्विति । पुत्र । शवसः। अवृत्रन्न् । कामकातय इति काम-कातयः । न । त्वाम् । इन्द्र । अतीति । रिच्यते ।
अथैन्द्रस्य पुरोनुवाक्या-त्वे इति गायत्री ॥ त्वे त्वयि । ‘सुपां सुलुक' इति सप्तम्येकवचनस्य शेआदेशः । हे शवसो बलस्य पुत्र । महाबलश्च बलाज्जात इत्युपर्चयते । 'परमपिच्छन्दसि' इति परमपि षष्ठयन्तं पूर्वमामन्त्रितं प्रत्यङ्गवद्भवतीति षष्ठयन्तामान्त्रितसमुदायस्याष्टमिकमामन्त्रितसर्वानुदात्तत्वम् । कामका तयस्स्तुतयः कामा वाञ्छितानि कायन्ते *प्रार्थ्यन्ते याभिस्ताः कामकातयः । दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् । तास्त्वय्येव स्ववृत्रन् शोभनं वर्तन्ते त्वय्येव महाबले क्रियमाणास्स्तुतयश्शोभन्ते, न पुरुषान्तरवदनर्थकाभिधानतां प्रतिपद्यन्ते । वृतेश्छान्दसो लुङ् , 'द्युद्यो लुङि' इति परस्मैपदम्, द्युतादित्वादङ्, 'बहुळं छन्दसि ' इति रुट् । यदुक्तं त्वय्येव स्तुतयश्शोभनवृत्तय इति तदेव समर्थयते-हे इन्द्र तासां स्तुतीनां मध्ये एकापि त्वां नातिरिच्यते त्वां विहाय न प्रवर्तते सर्वा अपि त्वद्विषया एवात्मानं लभन्ते ॥
*ग. घ-काम्यन्ते.
For Private And Personal