________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
116
तैत्तिरीयसंहिता
का.१. प्र.४.
यस्त्वा हृदा कीरिणा मन्यमानोमत्यं मो जोहवीमि । जातवेदो यशो अस्मासु धेहि प्रजाभिरग्ने 'यः । त्वा । हृदा । कीरिणां । मन्यमानः । अमर्त्यम् । मत्यैः । जोहवीमि । जातवेद इति जात-वेदः । यशः। अस्मासु । धेहि । प्रजाभिरित प्र-जाभिः। अग्ने । अमृतत्व मित्य॑मृत
एवमाध्वरिका मन्त्रा अवभृथान्तास्समाप्ताः । अतः परमन्त्योनुवाको याज्या, वैश्वदेवं काण्डम् ॥
'तत्र ‘अनये पुत्रवते पुरोडाशमष्टाकपालं निर्वपेदिन्द्राय पुत्रिणे पुरोडाशमेकादशकपालं प्रजाकामः '* इत्यस्याग्नेयस्य पुरोनुवाक्या-यस्त्वेति त्रिष्टुप् । इयादेशद्वयेन तृतीयपादः पूर्यः ॥ हे अग्ने जातवेदः जातानां वेदितः जातधन वा, योहं मर्त्यः मरणधर्मा मनुष्यः त्वाममर्त्यममरणधर्माणं हृदा मनसा कीरिणा कीर्तयता गुणकीर्तनशीलेन । कीर्तयतेय॑न्तात् 'अच इः' इतीप्रत्यये धातोरन्त्यलोपश्चान्दसः । ईदृशेन हृदयेन त्वां मन्यमानः जानन् जोहवीमि भृशमाह्वयामि । ह्वयतेः 'अभ्यस्तस्य च ' इति सम्प्रसारणम् । यहा-त्वदर्थमिदं हविर्जुहोमि । उभयत्रापि यङ्गन्ताल्लट् , ' अनुदात्ते च' इत्याद्युदात्तत्वम् । येषां सम्बन्धी तवाद्वाताहं, तेष्वस्मासु पुत्रपौत्रेषु यशो धेहि स्थापय यशस्विन
*सं. २-२-४,
For Private And Personal