________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
114
तैत्तिरीयसंहिता
का.१. प्र.४
तर सुभृतमकर्म देवेषू नस्सुकृतो ब्रूतात्प्रतियुतो वरुणस्य पाशः प्रत्यस्तो वरुणस्य पाश एधौस्येधि
धीमहि समिसि तेजोसि तेजो सु-भृतम् । अकर्म । देवेषु । नः । सुकृत इति सु-कृतः । ब्रूतात् । "प्रतियुत इति प्रति-युतः। वरुणस्य । पाशः । प्रत्य॑स्त इति प्रति-अस्तः। वरुणस्य । पाशः । “एधः । असि । एधिषीमहि । "समिदितिसं-इत्।असि।तेजः।असि।तेजः।माय। अकर्म कृतवन्तो वयम् । 'मन्त्रे घस' इति च्लेलृक्, ‘गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । अतोस्मानपि यूयं देवेषु सुकृतस्सुष्ठुकर्म कृतवन्तो ब्रूतात् ब्रूत । 'तस्य तात् ' इति तादादेशः ॥
अपामन्तं प्रतियौति-प्रतियुत इति ॥ प्रतियुतः प्रत्येक प्रथकृतः वरुणस्य पाशः । प्रथकृत्य च प्रत्यस्तः प्रतिक्षिप्तः विनाशित इत्यर्थः । पूर्ववद्गतेः प्रकृतिस्वरत्वम् ।।
*प्रपथे समिधः कुर्वते-एधोसीति ॥ हे समित् एधोसि एधनी वर्धनी त्वमस्यग्नेः । जलस्तादृश्या त्वया वयमपि एधिषीमहि वृद्धिं प्राप्नुयामः । यद्वा-तादृश्या त्वया अग्निं वर्धयेम ।।
1आहवनीये समिधमभ्यादधाति—समिदिति ॥ समित्समिन्धनी सन्दीपनी त्वमग्नेरसि । तस्मात्तेजोसि तेजस्साधनमग्नेरसि । तादृशी सा त्वम्मय्यपि तेजो धेहि स्थापय ॥
For Private And Personal