________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
112
तैत्तिरीयसंहिता
[का. १. प्र. ४.
~
~
हरसि निचङ्गुणावं देवैर्देवकृतमेनौ
याडव मत्यैर्मत्य॑कृतमुरोरा नौ देव गुणति नि-चङ्गुण । अवेति । देवैः। देवकृतमिति देव-कृतम् । एनः । अयाट् । अवेति । मत्यः । मयंकृतमिति मयं-कृतम् । उरोः । एति ।
इति वाधिकरणे कः, निभृतशब्दकरद्रव्याधिकरणत्वात् । निचेरुरसि निभृतं चरसीति निभृतं वा चरत्यस्मिन्नित्यौणादिके उप्रत्यये छान्दसमेत्वम् । अत्वरं* क्रियमाणोसीत्यर्थः, निगूढचरद्रव्याभिप्रायं वा । किञ्च-हे निचङ्कण । व्याख्यातम् । तिरोहितद्रव्याभिप्रायम्। । यद्वा-कण निमीलने, छान्दसमुत्वम् । कण गतौ वा । यन्नाम किञ्चिदेवकृतं देवेषु कृतमस्माभिरेनः पापं सम्यगनुष्ठानाभावनिमित्तम् । सप्तमीपूर्वपदप्रकृतिस्वरत्वम् । तत्सर्व देवैस्सह अवायाट् अवाक्षीः अवयन विनाशयेत्यर्थः । अवयनिर्विनाशे वर्तते । यच्च मर्त्यकृतं मर्येषु कृतं पापम् । पूर्ववत्स्वरः । तच्च मयस्सहावयज । यजेश्छान्दसे लुङि सिचिवृद्धौ 'बहुळं छन्दसि' इति तदभावः । किञ्च-हे देव उरोविस्तीर्णात् रिषः हिंसितुः हिंसायां वा । रिषेः क्विबन्तात् 'सावेकाचः' इति पञ्चम्या उदात्तत्वम् , 'पातौ च बहुळम् ' इति तस्यास्संहितायां सत्वम् । ततो नः अस्मानापाहि परिपाहि ॥
*तं. म.-अत्यर्थ.
ग.-द्रव्याभिप्रायं वा.
For Private And Personal