SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 108 तैत्तिरीयसंहिता का. १. प्र. ४. तिधातवेककृतार्पवक्ता हृदयाविधश्चित् । शतं ते राजभिषजस्स॒हस्र मुर्वी गम्भीरा सुमतिष्टे अस्तु । वे। अकः । उत । अपवक्ते त्यप-वक्ता । हृदयाविध इति हृदय-विधः । चित् । शतम् । ते । राजन्न् । भिषजः । सहस्रम् । उर्वी । गम्भीरा । सुमतिरिति सु-मतिः । ते । अस्तु । बाधस्व । द्वेषः । निर्ऋतिमिति निः-ऋतिम् । प्रकृतिस्वरत्वम् । करोतश्छान्दसे लुङि — मन्त्रे घस' इति चेलृक् । हृदयं विध्यतीति हृदयाविधः । क्विबन्तादकारोपजनश्छान्दसः, 'नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ ' इति पूर्वपदस्य दीर्घः । बहुवचनान्तमेव वा । चिदिति चार्थे उपमार्थे वा ॥ अपो दृष्ट्वा यजमानं वाचयति-शतं ते राजनिति त्रिष्टुभम् ॥ हे राजन् वरुण अपामधिष्टातः शतं बहवस्सहस्रं बहुतमाश्च ते तव भिषजः पापस्य शमनहेतवस्सन्ति, तस्मात्त्वत्प्रसादात् अस्म त्पापमपि ते शमयन्त्विति शेषः । किञ्च-उर्वी महती गम्भीरा दुरवगाहा च ते सुभतिः कल्याणी मतिरस्तु अस्मदनुग्रहपरैव सर्वदा भूयात् । 'युष्मत्तत्ततक्षुषु' इति संहितायां षत्वम् । किञ्च-बाधस्व विनाशय द्वेषः दृष्टान् । विजन्ताच्छस् । जातौ वा एकवचनम् । द्वेषांसि रक्षःप्रभृतीनीत्यर्थः । नितिं च बाधस्व पराचैः परामखीभूताम् । उच्चैरादिवदव्ययं द्रष्टव्यम् । निरतिमिति For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy