________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. (४५) ३९.]
भभास्करभाष्योपेता
107
NA
~
पन्धामन्वैतवा । अपदे पादा प्रसूर्याय । पन्थाम् । अन्वैतवा इत्यनु-एतवै। छ । अपदे । पार्दा । प्रतिधातव इति प्रति-धात
गन्तुं उरुं विस्तीर्ण पन्थां पन्थानं मार्ग चकार करोति, साधुनि कर्मणि पुरुषं प्रवर्तयन् अभ्युदयेन योजयतीत्यर्थः । उ इत्यवधारणे, वरुण एव हि राजा इत्थं करोति । किञ्च- स एव अपदे अपदनीयस्थाने असाधुनि कर्मणि पादा पादान् प्रतिधातवे प्रतिधातुं अकः करोति पुरुषं प्रवर्तयतीत्यर्थः । कथमित्याह-उतापवक्ता अप्यवदिता यः परोक्षे परिवदति पिशुनो यश्च* हृदयाविधः प्रत्यक्षमेवाप्रियाणि वदन् हृदयादि विध्यति, वरुणेनैव हि प्रेरितस्तथातथा परुषो भवति, सोस्मान् साधुनि कर्मणि पदं कारयत्विति शेषः । अन्य आह-अपदे अनालम्बेन्तरिक्षे अन्वेतवै अनुक्रमेण गन्तुं सूर्यस्य पन्यां पन्थानमुरुं वरुणो राजा यस्माञ्चकार, तस्मात्सोस्माकमपि पादान् प्रतिधातुं विस्तीर्ण पन्थानं अकः करोतु अवभृथार्थमपि; यो नामापवक्ता पुरुषो हृदयाविधश्च सोस्माकमवभृथार्थ मार्ग करोतु गमनप्रतिबन्धं मा कार्षीदित्यर्थः । चकारेत्यस्य 'हि च ' इति निघातप्रतिषेधः । सूर्यशब्दाक्तर्मणस्सम्प्रदानत्वाच्चतुर्थी । पथ आत्वं व्यत्ययेन द्वितीयायामपि भवति । अनुपूर्वादेतेः 'तुमर्थे सेसेन्' इति तवैप्रत्ययः, ' तवै चान्तश्च युगपत्' इत्येतेस्तवैप्रत्ययान्तस्य युगपत्प्रकृतिस्वरत्वम् । 'सुपां सुलुक्' इति पादशब्दाद्वितीयाया आकारः । प्रतिपूर्वाद्दधातेस्तेनैव सूत्रेण तवेन्प्रत्ययः । 'तादौ च' इति गतेः
*तं-अपिच.
For Private And Personal