________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
104
तैत्तिरीयसंहिता
.
का. १. प्र. ४.
देवान्तान् ॥ ४७ ॥ प्रेरय स्खे अने सधस्थे । वहमाना भरमाणा हवी षि वसु धर्मं दिवमा तिष्टतानु।
यह यज्ञं गच्छ यज्ञपतिं गच्छ स्वां तान् ॥ ४७ ॥ प्रेति । ईरय । स्वे । अग्ने । सधस्थ इति सध-स्थे । वहमानाः । अरमाणाः। हवी ५र्षि । वसुंम् । धर्मम् । दिवम् । एति । तिष्ठत । अनु । यह । यज्ञम् । गच्छ । यज्ञप
स्वे आत्मीये सधस्थे सहस्थाने, यत्र ते सह तिष्ठन्ति तत्र प्रस्थापय । 'सुपि स्थः' इति तिष्ठतेः कः, 'सधमाधस्थयोः' इति सहस्य सधादेशः । अधुना देवान्प्रत्याह-हे देवा यूयमपि हवींषि वहमानाः रथादिभिर्वाहनैः वाहयन्तः भरमाणा हस्तादिभिर्धारयन्तः । यहा-भुक्तशेषाण्यपत्याद्यर्थं परिपालयन्तः वसुं सर्वस्य लोकस्य वासयितारं धर्ममादित्यमातिष्ठत प्रामुत । अनु अनन्तरं च दिवं द्युलोकमातिष्ठत ॥
'यज्ञ यज्ञमित्यादीनि त्रीणि यजूंषि ॥ हे यज्ञ यज्ञं परमात्मानं विष्णुं गच्छ येन त्वं प्रतिष्ठितस्स्याः । अनन्तरं यज्ञपतिं यज्ञपालयितारं यजमानं गच्छ फलप्रदानेन । अनन्तरं च स्वामात्मीयां योनि गच्छ, योनिः कारणं सर्वपरिस्पन्दहेतुताख्या परमेश्वरस्य क्रियाशक्तिः । यथा-वाताहा अध्व
For Private And Personal