________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. (४४) ३८.]
भभास्करभाष्योपेता
103
सर्वनेदं जुषाणाः । जाक्षिवासः पपिवार सश्च विश्वेस्मे धत्त वसवो
वसूनि । यानावह उशतो दैव म् । अकर्म । ये । आजग्मेत्या-जग्म । सर्वना । इदम् । जुषाणाः। जक्षिवासः । पपिवारसः। च । विश्व । अस्मे इति । धत्त । वसवः । वसूनि । 'यान् । एति । अवहः । उशतः । देव । देवान् ।
त्यर्थः । करोते ङि — मन्त्रे घस' इति च्लेर्लुक , 'छन्दस्युभयथा' इति तिङ आर्धधातुकत्वात् डिवाभावः । देवा विशेप्यन्ते-ये यूयमिदमिदानीं सवना सवनानि आजग्म आगताः जुषाणाः प्रीयमाणास्सेवमांना वा, तेषां सदनमकर्मेति । 'सुपां सुलुक् ' इतीदमो विभक्तेलृक् । सवनशब्दात् 'शेश्छन्दसि' इति शेर्लोपः । जुषतेस्ताच्छीलिके चानशि शपो लुक् । ते विश्वे सर्वेपि यूयं जक्षिवांसः सवनीयपुरोडाशादि भक्षितवन्तः पपिवांसश्च सोमं पीतवन्तः हे वसवः लोकानां वासयितारः अस्मे अस्मासु धत्त स्थापयत वसूनि धनानि । 'लिक्ष्यन्यतरस्याम्' इत्यदेघस्लादेशः । अस्मच्छब्दात्परस्यास्सप्तम्याः ‘सुपां सुलुक् ' इति शे आदेशः ॥
अथ षष्ठीयानावह इति त्रिष्टुप् ॥ हे अग्ने देव दीप्यमान यान् देवान् उशतः हवींषि कामयमानान् । 'शतुरनुमः' इति विभक्तेरुदात्तत्वम् । आवहः आहूतवानसि तान् देवान्प्रेरय
For Private And Personal