________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
102
तैत्तिरीयसंहिता
का. १. प्र. ४.
यज्ञे अस्मिन्नग्ने होतारमवृणीमहीह ।ऋधगयाइधगुतामिष्ठाः प्रजानन् यज्ञमुप॑ याहि विद्वान् । स्व
गावों देवास्सदनमकर्म य आजग्म अस्मिन्न् । अग्ने । होतारम् । अवृणीमहि । इह । ऋधक् । अयाट् । ऋधक् । उत । अशमिष्ठाः । प्रजाननिति प्र-जानन् । यज्ञम् । उपेति । याहि । विद्वान् । 'स्वगति स्व-गा । वः । देवाः। सदन
णीमहि वृतवन्तो वयमिहास्मिन्प्रयोजने एतदनुरूपमेव त्वया कृतमिति प्रदर्शयति-कथं ? ऋधक् समृद्धं वैगुण्यं यथा न भवति तथा अयाट् अयाक्षीः । यजेर्लुङि सिचिवृद्धौ ‘बहुलं छन्दसि' इतीडभावः । यत एवमतस्त्वमेव प्रजानन् आत्मीयमाधिकारं जानन् अनुसन्दधानः इत्थमित्थं कृतवानसि, तस्मात् भूयोपि अस्मदीयं यज्ञं पुनःपुनरुपयाहि आगच्छ विद्वान् सर्वार्थसाधनोपायज्ञस्त्वम् ॥
अथ पञ्चमी-स्वगा व इति त्रिष्टुप् ॥ हे देवाः वः युष्माकं सदनं स्थानं स्वगा अकर्म स्वगाकतवन्तो वयम् । स्वगेति निपातः यथास्वकरणं द्योतयति, यथायथमसङ्कीर्णस्थानं कृतवन्तो वयमि* 'ऋधगुताशमिष्ठाः' इत्यस्य व्याख्या क्वचिदपि भट्टभास्करीयकोशे न दृश्यते । ["उत अपि च त्वं ऋधक समृद्ध अशमिष्ठाः अस्मद्विघ्रशान्तिमकार्षीः । शमेलङि सिचि इडावः' इति भाष्येण भवितव्यम्.]
For Private And Personal