SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. (४३) ३७.] . भभास्करभाष्योपेता 95 सोम॑च्युतं तन्मित्रस्य॑ प॒था नय॒तस्य॑ पृथा प्रेतं चन्द्रदक्षिणा यज्ञस्य॑ प॒था सुविता नय॑न्तीाह्मणमद्य राध्यातत् । मित्रस्य । पृथा । नय । ऋतस्य । पृथा । प्रेति । इत । चन्द्रदक्षिणा इति चन्द्र-दक्षिणाः । यज्ञस्य । पृथा । सुविता । नय॑न्तीः । ब्राह्मणम्। कश्चिदाह-सोमयागेन ह्यस्य प्रच्युतं भूर्धनम्*, तदिदानी दक्षिणार्थं सदस्यान्न नेतव्यम् । तदुच्यते-हे सदः सोमयागार्थं च्युतं च्यावनं अङ्गत्वेनानुप्रवेशो यस्य तत् सोमच्युतं त्वमेव मित्रस्य पथा नयेति । उदात्तनिवृत्तिस्वरेण पथस्तृतीयाया उदात्तत्वम् । अधुना दक्षिणा आह-ऋतस्य पथा प्रेत गच्छत । यज्ञस्याङ्गभावं प्रतिपद्यमानास्सदः प्रति गच्छत । चन्द्रदक्षिणा, चन्द्रं हिरण्यं तदक्षिणं प्रधानं श्रेष्ठं यासां तादृश्यो गच्छत, हिरण्यसहिता इत्यर्थः । किञ्चयज्ञस्य पथा 'द्वाभ्यां गाईपत्ये जुहोति' इत्यादिप्रसिद्धेन मार्गेण सुविता सुवितेन स्वितेन सुगमेन । 'सुपां सुलुक्' इति तृतीयाया आकारः, 'सूपमानाक्तः' इत्युत्तरपदान्तोदात्तत्वम् , तन्वादित्वात्सोरुवडादेशः, विकृतत्वादनवग्रहः । ईदृशेन मार्गेण नयन्तीः नयन्त्यः नीयमानाः प्रवर्तमाना वा । ' वा छन्दसि' इति पूर्वसवर्णदीर्घः ॥ आत्रेयमभ्यर्थयति ब्राह्मणमिति ॥ अद्य अस्मिन्नहनि *तं.-प्रच्युतमभद्रनम् . क.-सदस्यानतव्यम् . सं. ६-६-१० एक, तं. म.-आत्रेयस्येति. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy