________________
Shri Mahavir Jain Aradhana Kendra
94
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तैत्तिरीय संहिता
तु॒थो वो॑ वि॒श्ववे॑दा॒ वि भ॑जतु॒ वषि॑ष्ठ॒ अधि॒ नाके॑ । ए॒तत्ते॑ अग्ने॒ राध ऐति
[का. १. प्र. ४.
। ।
I
I
ए॒सि॒ वय॑सा । वय॑ः । `तु॒थः । व॒ः । वि॒श्ववे॑द॒ इति॑ वि॒श्ववे॑दा॒ः । वीति॑ । अ॒ज॒तु॒ । वऋषि॑ष्ठे । अधीति॑ । नाकै । ए॒तत् । ते । अ॒ग्ने॒ । राध॑ः । एति॑ । ए॒ति॒ । सोम॑च्युत॒मिति॒ सोम॑ च्युत॒म् ।
--
" दक्षिणा विभजति — तुथो व इति यजुषा ॥ तुथो नामाभिः विश्ववेदाः विश्वस्य विभागादेर्वेदिता । पूर्ववदसुन्, पूर्वपदप्रकृति स्वरत्वं च । स एव वः युष्मान्विभजतु । वर्षिष्ठे वृद्धतमे नाके सुखैकरूपे स्थाने यथा भवत्यर्थस्तथा वो विभजतु । यहावर्षिष्ठे नाकात्मन्यत्र स्थाने स एवागत्य वो विभजत्विति ॥
For Private And Personal
'सदोऽभ्येति — एतत्ते अग्रे इति मध्येज्योतिषा जगत्या । ' तन्मित्रस्य पथा नय' इति द्वितीयः पादः ॥ धिष्णियैरनिभिरग्निमत् सदोनिशब्देनोच्यते । मत्वर्थीयो लुप्यते । ते इति कर्मणस्सम्प्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । हे अग्रे सदः एतद्दक्षि णालक्षणं राधः धनं त्वामेति त्वत्समीपं प्राप्नोति ऋत्विग्भ्यो दातुम् । सोमच्युतं सोमेन च्यावितं सोमेन राज्ञा स्वयमानीतम् । 'सृतिया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । यद्वा — सोमयागार्थ च्युतं च्यवनं अङ्गत्वेनानुप्रवेशो यस्य, सोमयागद्रव्यमध्याद्वा दक्षिणार्थं च्युतिर्यस्य तत्सोमच्युतम् । तद्राधः मित्रस्यादित्यस्य पथा मार्गेण नय येन मार्गेण पदार्थ मित्रो नयति तेन नय प्रकाशयेत्यर्थः ।