SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 92 तैत्तिरीयसंहिता . का. 1. प्र... स्त्वद्वाजा उदीरते । “अग्ने त्वं पारया नव्यो अस्मान्थ्स्वस्तिभिरति दुर्गाणि विश्वा । पूर्व पृथ्वी बहुला ने उर्वी भवा तोकाय तनयुदात्तत्वम् । किञ्च–वाजाः अन्नान्यपि त्वत्तः उदीरते उत्पद्यन्ते.। ईर गतौ कम्पने च, इत्यदादिकोऽनुदात्तेत् , 'आत्मनेपदेप्वनतः ' इत्यदादेशः ॥ तत्रैव याज्या-अग्ने त्वमिति चतुप्पदा त्रिष्टुप् ॥ हे अग्ने त्वं नव्यः, नव एव नव्यः । 'वस्वपसोककविक्षेमवचोनिष्केवलोक्थजनपूर्वनवसूरमर्तयविष्ठेभ्यश्छन्दसि स्वार्थे यद्वक्तव्यः' इति स्वार्थे यत्प्रत्ययः, 'यतो नावः' इत्याद्युदात्तत्वम् । अस्मानतिपारय अतिक्रम्य पारय । पार तीर कर्मसमाप्तौ । अविकलकर्मणः कुरु । किमतिक्रम्य ?--विश्वा विश्वानि । 'शेश्छन्दसि बहुळम् ' इति लोपः । दुर्गाणि दुःखेन गच्छन्ति येषु तानि दुर्गाणि विध्यपराधलक्षणानि पापानि । 'सुदुरोरधिकरणे ' इति गमेर्डः, कृदुत्तरपदप्रकृतिस्वरत्वम् । तान्यतिक्रम्यास्मान्पारय । 'अन्येषामपि दृश्यते' इति संहितायां दीर्घत्वम् । नव्यो अस्मानिति 'प्रकृत्यान्तःपादमव्यपरे ' इति प्रकृतिभावः । स्वस्तिभिश्शोभनैर्मा गैः दुर्गातिक्रमणोपायभूतैः । अस गतौ ‘क्तिचक्तौ च संज्ञायाम् ' इति क्तिच् , 'तितुत्र' इतीटप्रतिषेधः, कदुत्तरपदप्रकृतिस्वरत्वम् । किञ्च-नोऽस्माकं तत्र वसतां पू: नगरी निवासस्थानं, पृथ्वी विस्तीर्णा महावकाशा अविकलकर्मफलोपभोगयोग्या भवत्विति शेषः । पृथुशब्दः कुप्रत्ययान्तत्वादन्तोदात्तः, 'ओतो गुणवचनात् ' इति ङीप् , 'उदात्तयणो हल्पूर्वात् ' इति नद्या उदात्तत्वम् । किञ्च-अस्माकं तत्र वसतां For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy