________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनु. १४.]
भभास्करभाष्योपेता
91
91
अध्वरान्थ्स ऋतूकल्पयाति । "यद्वाहिष्ठं तद्नये बृहदर्च विभावसो । महिषीव त्वयि
"तत्रैव स्विष्टकृतः पुरोनुवाक्या—-यद्वाहिष्ठमिति चतुष्पदानुष्टुप् ॥ वाहिष्ठं वाहयितृतमं प्रीतेः प्रापयितृ । स्तोत्रमेव चेदृशं भवति । तस्मादीदृशं यत् स्तोत्रं तदग्नये अग्न्यर्थ मेव । अग्निरेव रमणीयं स्तोत्रमर्हति, तस्मादीदृशेन स्तोत्रेण त्वामेव स्तौमीति भावः । वाहयितृशब्दात् 'तुश्छन्दसि' इतष्ठिन्प्रत्ययः, 'तुरिष्ठेमेयस्सु ' इति तृशब्दलोपः, व्यत्ययेन तस्यासिद्धत्वमनादृत्य 'टेः' इति टिलोपः । यद्वा-वाह प्रयत्ने इत्यस्माहातोस्तृजन्तादिष्ठन्प्रत्ययः । अभीष्टनिर्वहणं प्रयत्नः । हे विभावसो तेजोधन त्वमपि बृहत् प्रशस्तं मदीयं स्तोत्रं अर्च बहुमन्यस्व अङ्गीकुरु । किमिति देवतान्तरं मुक्ता अग्निरेव स्तूयते इत्यत आह-त्वत् त्वत्तः रयिः धनं उत्पद्यते । उदीरत इति वक्ष्यमाणबहुवचनान्तमत्र एकवचनान्तविपरिणामेन सम्बध्यते । कस्मादिव ?--महिषीव, महान् ऋषिमहर्षिः महेश्वरः । एषोदरादित्वादाकारस्येत्वम्, रेफलोपश्च । ततः पञ्चम्येकवचनस्य 'सुपां सुलुक् ' इति लुक्* । महाराजादिव त्वत्तो धनमुत्पद्यते । वृषादित्वादाद्युदात्तत्वम् । यहा-महिप्येव गृह्यते, यथा राजभार्यायाः रत्नादिकं लभते एवं त्वत्तोपि । 'अविमह्योष्टिपच् ' इति महेष्टिषचि कृते टिस्वात् ङीप् , उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वे प्राप्ते 'महिप्याषाढयोरिष्टकाख्यायाम् ' इत्या*क-'सुपां सुलुक्' इति पूर्वसवर्ण ईकारः । ‘आयुदात्तप्रकरणे दिवोदासादीनां
छन्दस्युपसङ्ख्यानम्' । यद्वा-महिषी राजभार्या । सापि महिषी । मत्व य ईकारः । पञम्येकवचनस्य ‘सुपां सुलुक्' इति लुक्.
For Private And Personal Use Only