________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
90
तैत्तिरीयसंहिता
[का. 1.प्र ...
सकत्वम् , तं पन्थानमनु प्रवोढुं यस्माद्वयं शक्नवाम । सम्भावने लोट् । तस्मात्मागता वयमिति । ननु तदवस्थमेव कर्मणो वैकल्यं, कथं वा निर्वोढुं शक्यत इत्यत आह–स एव खल्वग्निः पथिकन्नामा यजात् यजेत् अविगुणं यागं निर्वर्तयिप्यति अनतिपन्नतां कर्मणस्सम्पादयिष्यति । लेट आडागमः । कोस्य विशेष इत्यत आह-विद्वान् सम्यग्यागसम्पादनोपायज्ञः । ननु देवानां यागेतिपन्ने किमग्निना शक्यमित्यत आह–स एव खल्वमिः होता देवानां साधु आह्वाता । ह्वयतेस्तृनि 'बहुळं छन्दसि' इति सम्प्रसारणम् । देवाः खल्वग्निना हूयमानाः कर्मणो वैगुण्यमनादृत्य आगमिप्यन्तीति । अधुना किमग्निना अशक्यं कर्तुमिति प्रतिपाद्यते—स खल्वग्निः अध्वरान् यागान् कल्पयाति कल्पयति अकालमृतानपि फलप्रदानसमर्थान् करोति । यहा-अध्वरान् ध्वरैः कर्मणो वारकैः कालातिपत्यादिदोषैः रहितानस्मान् अस्मद्यागान्वा करोतु । एवं हि 'नञ् सुभ्याम् । इत्युत्तरपदान्तोदात्तत्वं लभ्यते । ननु कालो बलवान्, तत्कथं तदतिपत्तिः अग्निना परिहर्तुं शक्यत इत्यत आह–स एव खल्वग्निः ऋतून कालावयवान् कल्पयाति, आदित्यात्मनाप्यनेरेवावस्थितत्वात् । यः कालस्यैव स्रष्टा स कथं विपन्नकालं अविपन्नं कर्तुं न शक्नुयादिति भावः । अत्र स इति पदं चतुः प्रयुज्यते । तत्र संहितायां प्रथमस्य ' एतत्तदोः । इति प्रथमा लुप्यते । द्वितीयस्य तु 'सोचि लोपे चेत् ' इति लुप्यते । तृतीयस्य तु 'अतो रोः' इति रोरुत्वे, गुणे च कृते, 'अनुदात्ते च कुधपरे' इति रोः प्रकृतिभावः । चतुर्थस्य तु 'भोभगोअघोअपूर्वस्य योशि' इति यत्वे कृते, 'लोपश्शाकल्यस्य ' इति लुप्यते, लोपस्यासिद्धत्वाद्गुणो न क्रियते ॥
For Private And Personal Use Only